स्मृतयः
From Wikipedia, the free encyclopedia
स्मृतिः नाम पूर्वतनज्ञानस्य स्मरणम् इत्येषः सामान्यः अर्थः । महर्षयः वेदान् गभीरतया अधीत्य हृद्गतान् उपदेशान् लिखितरूपेण अयच्छन् । एवं स्मरणात् प्राप्ताः स्मृतयः । एताः वेदानां सङ्ग्रहरूपाः सन्ति । एतासु धर्म-अर्थ-काम-मोक्षाणां चतुर्णामपि पुरुषार्थाणां विवेचनं कृतं वर्तते । अत्र वर्णाः, अर्थव्यवस्थाः, वर्णाश्रमधर्माः, विशेषावसरेषु करणीयानि कर्माणि, प्रायश्चित्तम्, प्रशासनप्रणालिः, दण्डव्यवस्था, मोक्षसाधनम् इत्यादिषु सर्वेषु विषयेषु विवरणम् उपलभ्यते ।
श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।
धर्मशास्त्राणाम् अपरं रूपमेव स्मृतिः इति उच्यते । किन्तु धर्मशास्त्राणां स्मृतीनां च भेदः विद्यते । धर्मशास्त्राणि विस्तृतानि भवन्ति किन्तु स्मृतयः संक्षिप्तरूपयुक्ताः भवन्ति ।
काश्चन स्मृतयः गद्यरूपेण भवन्ति । काश्चन पद्यरूपेण काश्चन चम्पूशैल्या वर्तन्ते ।