पुरुषार्थः
From Wikipedia, the free encyclopedia
पुरुषार्थः इत्युक्त धर्मः, अर्थः, कामः, मोक्षः च। यथा भारतीयशास्त्रकारैः समष्टेः कल्याणार्थं वर्णधर्मः , व्यष्टेः कल्याणार्थं च आश्रमधर्मः उपदिष्टः, तथैव व्यष्टिः समष्टिः इत्युभयोः कल्याणार्थं चतुर्विध-पुरुषार्थरुपेण जीवनध्येयमपि प्रदत्तं यद् ध्रुवतारकावत् जीवनयात्रायां तस्य मार्गदर्शनं कुर्यात् । को नाम पुरुषार्थः इति चेत् तत्रोक्तम् (जै.सू.वृ.४-१२)-
- कृतार्थोऽस्मि इति वृत्तिस्तत्साधनं पुरुषार्थः इति ।
यदि किंचित् जीवनलक्ष्यं न स्यात् तर्हि नानाविधान् सुखोपभोगान् भुक्त्वा अपि मानवः कृतार्थताजन्यं समाधानं नैव लभेत् । प्रचलदूर्मिमालाकुले सागरे गन्तव्यविरहिता नियन्त्रणरहिता प्रवाहपतिता नौः इव तस्य स्थितिः जायेत । अतः एव मनुष्यजीवनं साङ्गोपाङ्गम् अभ्यस्य तस्य प्रवृत्तीः च सम्यक् निरीक्ष्य एते चतुर्विधाः पुरुषार्थाः धर्मार्थकाममोक्षात्मकाः तस्मै साध्यरुपेण प्रदत्ताः मानवानुग्रहतत्परैः शास्त्रकारैः ।