![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/fd/1200-1000_BCE%252C_Vajasneyi_samhita_sample_i%252C_Shukla_Yajurveda%252C_Sanskrit%252C_Devanagari.jpg/640px-1200-1000_BCE%252C_Vajasneyi_samhita_sample_i%252C_Shukla_Yajurveda%252C_Sanskrit%252C_Devanagari.jpg&w=640&q=50)
यजुर्वेदः
From Wikipedia, the free encyclopedia
यजुर्वेद: चतुर्वेदस्य अन्यतमः। यजुर्वेदे यज्ञयागादिक्रियाकलापानुरोधेन मन्त्राणां सन्निवेशोऽस्ति, अतः स ‘यजुःवेद' इति निगद्यते । यजुः इत्येतत्पदं यज् धातोः उसि प्रत्यये कृते निष्पद्यते । यजूंषि गद्यानि । अध्वर्युणा यज्ञे उपयुज्यमाना मन्त्रा एवात्र यजुर्वेदे सङ्कलिताः, यज्ञस्य वास्तविकं विधानमध्वर्युरेव करोति, अतोऽयं यजुर्वेदो यज्ञविधेरतिसन्निकृष्टं सम्बन्धं रक्षति । यजुर्वेदो द्विप्रकारकः- कृष्णयजुः च शुक्लयजुश्च ।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/fd/1200-1000_BCE%2C_Vajasneyi_samhita_sample_i%2C_Shukla_Yajurveda%2C_Sanskrit%2C_Devanagari.jpg/640px-1200-1000_BCE%2C_Vajasneyi_samhita_sample_i%2C_Shukla_Yajurveda%2C_Sanskrit%2C_Devanagari.jpg)
यजुःसंहितायां सर्वविधानामपि यज्ञयागादीनां वर्णनं विद्यते । कृष्णयजुः शुक्लयजुर्भेदेन सा द्विविधा । मन्त्रब्राह्मणयोर्द्वयोरपि यत्र मिश्रीभावः कृतः स कृष्णयजुर्वेद इति नाम्ना, किञ्च यत्र मन्त्राणामेव विशुद्धतया प्रतिष्ठानं कृतं सः शुक्लयजुर्वेद इति नाम्ना विश्रुतः । शुक्लयजुर्वेदस्य द्वे एव शाखे स्तः, ते माध्यन्दिनकाण्वनामभ्यां विदिते स्तः। कृष्णयजुर्वेदस्य सम्प्रति पञ्चाशीतिशाखासु केवलं चतस्रस्तैत्तिरीय-मैत्रायणी-कठकपिष्ठलकठाख्याः शाखाः समुपलभ्यन्ते ।
वस्तुतः आाध्वर्यव-कर्मणे उपादेये यजुर्वेदे यजुषां सङ्ग्रहो वर्त्तते । यजुःशब्दस्य व्याख्या आपाततः भिन्नाः प्रतीता भवन्ति, किञ्च तासु एकमेव लक्षणं प्रति सङ्केतो लभते। ‘अनियताक्षरावसानो यजुः’ अर्थात् यत्राक्षराणां संख्या नियता निश्चिता वा नास्ति तद्यजुः । ‘गद्यात्मको यजुस्तथा शेषे यजुः'-शब्दस्य तात्पर्यमिदमेवास्ति यदृक्-सामभ्यां भिन्नं गत्यात्मक-मन्त्राणामभिधानमेव ‘यजुः' वर्त्तते ।