गर्भाधानसंस्कारः
From Wikipedia, the free encyclopedia
सृष्ट्यां मानवः सर्वोत्कृष्टो मन्यते । तस्य जीवनस्य उद्देश्यम् आत्मसाक्षात्कारो वर्तते । विधिपूर्वकं संस्कृतो मानवो दिव्यज्ञानमर्जित्वा आत्मसाक्षात्कारं कर्तुं प्रभवति । मानवस्य सम्पूर्णजीवनं संस्काराणां क्षेत्रं वर्तते । संस्काराणां प्रमुखं लक्ष्यं शरीरस्य शुध्दिः पवित्रता चास्ति । एते संस्कारा वस्तुतः गर्भस्याधानादेव प्रारभन्ते । अधिकांशगृह्यसूत्राणि गर्भाधानादेव संस्काराणां प्रारम्भं निर्दिशन्ति । प्रजननमपि मानवजीवनस्य् अङ्गभूतम् । धर्मशास्त्रानुसारम् अत्र काऽप्यशुचिता नास्ति । अस्मिन् विषये मनुराह –
- वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
- कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥
अस्यायमर्थो यद् वेदमूलत्वात् वैदिकैः पुण्यैः शुभैः मन्त्रप्रयोगादिभिः कर्मभिः द्विजातीनां गर्भाधानादिः शरीरसंस्कारः कर्तव्यः । यतोहि एष शरीरसंस्कारो न केवलम् इहलोके परलोके चापि पुनाति । एवम् उक्तप्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः पापं शमं याति । गर्भाधानं परिभाषमाणो जैमिनिराह –
- गर्भः सन्धार्यते येन कर्मणा तद् गर्भाधानमित्यनुगतार्थं कर्मनामधेयम् ।
शौनकोऽपि प्रत्यपादयत् यत् यस्मिन् कर्मणि पुरुषेण निषिक्तो गर्भः स्त्रियां धार्यते तत् गर्भालम्भनं गर्भाधानं वेत्युच्यते –
- निषिक्तो यत्प्रयोगेण गर्भः सन्धार्यते स्त्रिया ।
- तद् गर्भालम्भनं नाम कर्म प्रोक्तं मनीषिभिः ॥
मनुयाज्ञवल्क्यादयः आचार्याः इदमेव कर्म निषेक् इत्यभ्यदधुः ।