बृहदारण्यकोपनिषत्
संस्कृत उपनिषदेसु एक: प्राचीन उपनिषद: / From Wikipedia, the free encyclopedia
बृहदारण्यकोपनिषत् प्रमुखेषु दशसु उपनिषत्सु अन्यतमा वर्तते । इयम् उपनिषत् शतपथब्राह्मणस्य अन्तिमभागो वर्तते । अद्यत्वे शतपथब्राह्मणं माध्यन्दिन-काण्वशाखाद्वये उपलभ्यते । काण्वशाखायां सप्तदश काण्डाः, माध्यन्दिनशाखायां चतुर्दश काण्डाः विद्यन्ते । बृहदारण्यकोपनिषदः षट् अध्यायाः काण्वशाखायाः सप्तदशे काण्डे उपलभ्यन्ते । अन्ये षड् काण्डाः माध्यन्दिनशाखायाः चतुर्दशे काण्डे उपलभ्यन्ते ।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/a/a3/Om_symbol.png)