फखरुद्दीन अली अहमद
भारतीयराजनेतारः / From Wikipedia, the free encyclopedia
श्रीफखरुद्दीन अली अहमद ( ( शृणु) /ˈphəkhərʊddɪnə əliː əhəmədə/) (हिन्दी: फखरुद्दीन अली अहमद, आङ्ग्ल: Fakharuddin Ali Ahmed) भारतस्य पञ्चमः राष्ट्रपतिः (१९०५-१९७७) । भारतधर्मनिरपेक्षतायाः प्रतीकः अस्ति यत्, भारतस्य सर्वोत्कृष्टे स्थाने (राष्ट्रपतिपदे) मुस्लिम-देशभक्ताः अपि आरूढाः भवन्ति । यद्यपि १९४७ तमे वर्षे भारतस्य धर्माधारीतं विभाजनं पाकिस्थानस्य जनकः अभूत्, तथापि भारतस्य धर्मनिरपेक्षतायाः विचाराः शिथिलाः नाभूवन् । एवं भारतस्य स्वतन्त्रतान्दोलनस्य देशभक्तः नेता फखरुद्दीन अली अहमद राष्ट्रपतित्वेन चितः । डॉ. वराहगिरि वेङ्कट गिरि-महाभागस्य कार्यकाले समाप्ते सति १९७४ तमस्य वर्षस्य 'अगस्त'-मासस्य दशमे (१०) दिनाङ्के राष्ट्रपतिनिर्वाचने फखरुद्दीन अली अहमद बहुमतेन चितः । १९७४ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्विंशतितमे (२४) दिनाङ्के फखरुद्दीन अली अहमद राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकरोत् ।
फखरुद्दीन अली अहमद | |
---|---|
![]() | |
भारतस्य पञ्चमः राष्ट्रपतिः | |
कार्यालये १०/८/१९७४ – ११/२/१९७७ | |
प्रधानमन्त्री | इन्दिरा गान्धी |
उपराष्ट्रपतिः | श्रीबसप्प दानप्प जत्ति |
पूर्वगमः | श्रीवराहगिरि वेङ्कट गिरि |
पादानुध्यातः | श्रीनीलं सञ्जीव रेड्डि |
व्यक्तिगत विचाराः | |
जननम् | १३/५/१९०५ शिवसागरमण्डलमे, असमराज्यम् |
मरणम् | ११/२/१९७७ (आयुः ७२) देहली-महानगरं, भारतम् |
राजनैतिकपक्षः | कोङ्ग्रेस |
पतिः/पत्नी | शाह जहां बेगम |
अपत्यानि | द्वे पुत्र्यौ |
मुख्यशिक्षणम् | स्टीफन्स्-महाविद्यालयः, केम्ब्रिज्-विश्वविद्यालयः |
वृत्तिः | वाक्कीलः |
धर्मः | मुस्लिमधर्मः |