इन्दिरा गान्धी
भारतीयराजनेतारः / From Wikipedia, the free encyclopedia
इन्दिरा प्रियदर्शिनी गान्धी (१९१७-१९९३) प्रयागे जाता । पठितुं सा गुरुदेवरवीन्द्रनाथ ठाकुरस्य शान्तिनिकेतन विद्यापीठम् अगच्छत् । ततः युरोपमहाद्वीपं गतवती ।
सा भारतस्य प्रधानमन्त्रिणी आसीत् । भारतदेशे सा एका एव महिला वित्तमन्त्रालये प्रमुखमन्त्रिपदं भूषितवती । तस्या: शासनकाले भारतदेशे प्रथमम् अण्वस्त्रपरीक्षणं कृतम् ।
इयं १९६६ तमात् वर्षात् १९७७ तमवर्षपर्यन्तं त्रिवारं भारतस्य प्रधानमन्त्रिणी आसीत् । तदनन्तरं १९८० तम वर्षतः १९८४ तस्याः हत्याकाण्डपर्यन्तं मन्त्री आसीत् । सा आहत्य १५ वर्षकालं प्रधानमन्त्रीस्थानं समलङ्करोत् । सा भारतस्य प्रथमा महिला प्रधानमन्त्री आसीत् इदानीमपि तत्स्थानं रिकतमेवास्ति । एतस्याः मोहनदासगान्धीमहाभागस्य च सम्बन्धः एव नास्ति ।
एषा प्रभावीनेहरुकुले जाता प्रबलराजनैतिकवातावरणे वर्धिता च । मोतिलालनेहरु अस्याः पितामहः । भारतीय स्वातन्त्र्यसङ्ग्रामस्य प्रमुखः आसीत् सः । स्वतन्त्रभारतस्य प्रधानमन्त्री जवहरलालनेहरु एव अस्याः पिता । १९४१ तमे वर्षे आक्सफर्डतः.[1] भारतं प्रति आगत्य एषा भारतीयस्वातन्त्रसंग्रामे पात्रम् ऊढवती । १९५० तमे वर्षे प्रथमप्रधानमन्त्री तस्य पिता यदा आसीत् तदा एषा तस्य वैयक्तिकसहायिका भूत्वा सेवां कृतवती । १९६४ तमे वर्षे तस्याः पिता दिवङ्गतः । भारतस्य राष्ट्रपतिना एतस्याः राज्यसभासदस्यत्वं प्राप्तम् । ततः वार्ताप्रसारमन्त्रिपदवीं लालबहादूरशास्त्रीसचिवालये प्राप्तम् ।
सा सहस्राब्दे: महिला(Woman of the Millennium) इति बी बी सी संस्थया प्रशस्तिः दत्ता आसीत् [2]।
शास्त्रिमहोदयस्य निधनं तु अनिरीक्षितमासीत् । ततः इन्दिरागान्धी प्रधानमन्त्री अभूत् । एनाम् एतत्पदव्यां स्थापयितुं काङ्ग्रेसपक्षस्य अध्यक्षः कापरमहाभागस्य एव मुख्यप्रात्रमस्ति । सा जनानुरागी भूत्वा सिद्धान्तस्थापनं कृतवती । सा निर्वाचने विजयं प्राप्य स्वसामर्थ्यं प्रदर्शितवती । सा कृषिकार्यार्थं कृषिकान् प्रोत्साहितवती । १९७१ तमे वर्षे जाते भारतपाकिस्थानयोः युद्धे भारतेन निर्णायकः विजयः प्राप्तः । तदा इन्दिरा प्रधानी आसीत् । परन्तु तस्मिन् सन्दर्भे भारते असुरक्षितता सर्वत्र कोलाहलमयवातावरणं च आसीत् । तदा सा देशे आपत्कालिकीं परिस्थितिं धोषितवती । दीर्धकालीनं निरङ्कुशप्रभुत्वम् आसीत् तस्याः । अतः पूर्वं कदापि अपजयमेव न दृष्टवता कांग्रेस्पक्षेण १९७७ तमे वर्षे सार्वत्रिकनिर्वाचने पराभवः प्राप्तः ।
पुनः १९८० तमे वर्षे काङ्ग्रेस्पक्षेण अधिकारः प्राप्रः । पुनः इन्दिरा एव आगतवती॥ १९८४ तमे वर्षे जून्मासे नेक्स्लेट्स् जनानां बन्धनं कर्तुम् इन्दिरा सिक्कजनानां पवित्रं स्थलं स्वर्णमन्दिरं प्रवेष्टुम् आदिदेश । एतत् सिक्कजनानां महतः क्रोधस्य कारणं जातम् । तस्मात् १९८४ तमे वर्षे अक्टोबर् मासस्य ३१ तमे दिनाङ्के तस्याः हननं कृतम् ।
Indira Gandhi इंदिरा गांधी | |
---|---|
3rd Prime Minister of India | |
In office 14 January 1980 – 31 October 1984 | |
President |
नीलं सञ्जीव रेड्डि ज्ञानी जैल सिंह |
Preceded by | चौधरी चरणसिंह |
Succeeded by | राजीवगान्धिः |
In office 24 January 1966 – 24 March 1977 | |
President |
सर्वपल्ली राधाकृष्णन् जाकिर हुसैन वराहगिरिः वेङ्कटगिरिः (Acting) मोहम्मद हिदायतुल्लाह (Acting) वराहगिरिः वेङ्कटगिरिः फक्रुद्दीन अलि अहमद बसप्प दानप्प जत्ति (Acting) |
Deputy | मोरारजी देसाई |
Preceded by | गुलजारीलाल नन्दा (Acting) |
Succeeded by | मोरारजी देसाई |
विदेशीयमन्त्री | |
In office 9 March 1984 – 31 October 1984 | |
Preceded by | नरसिंह राव् |
Succeeded by | राजीवगान्धिः |
In office 22 August 1967 – 14 March 1969 | |
Preceded by | महमदाली करीम् चाग्ला |
Succeeded by | दिनेश् सिंह |
रक्षणा मन्त्री | |
In office 14 January 1980 – 15 January 1982 | |
Preceded by | चिदम्बरम् सुब्रह्मण्यम् |
Succeeded by | रामस्वामी वेङ्कटरामन् |
In office 30 November 1975 – 20 December 1975 | |
Preceded by | सरदार स्वरण् सिंह |
Succeeded by | बन्सी लाल् |
ग्रुहमन्त्री | |
In office 27 June 1970 – 4 February 1973 | |
Preceded by | यशवन्तराव् चवाण् |
Succeeded by | उमा शङ्कर् दीक्षित् |
वित्त मन्त्री | |
In office 16 July 1969 – 27 June 1970 | |
Preceded by | मोरारजी देसाई |
Succeeded by | यशवन्तराव् चवाण् |
व्यैय्यक्तिकसूचना | |
Born |
(१९१७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१९)१९ १९१७ Allahabad, United Provinces, British India |
Died |
३१ १९८४(१९८४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-३१) (आयुः ६६) नव देहली, भारत् |
Political party | भारतीय नॅशनल् कान्ग्रेस् |
Spouse(s) | Feroze Gandhi |
Children |
Rajiv Sanjay |
Alma mater | Somerville College, Oxford |
Website | इन्दिरा गान्धी |