रवीन्द्रनाथ ठाकुर
वङ्गभाषायाः कविः, कथालेखकः, सङ्गीतज्ञः, नाटकरचयिता च / From Wikipedia, the free encyclopedia
रवीन्द्रनाथ ठाकुर ( ( शृणु) /ˈrəviːndrənɑːθə thɑːkʊrə/) (हिन्दी: रवीन्द्रनाथ ठाकुर, आङ्ग्ल: Ravindranatha Thakur, वङ्ग: রবীন্দ্রনাথ ঠাকুর) (७ मे १८६१- ७ आगस्ट् १९४१) वङ्गभाषायाः कविः, कथालेखकः, सङ्गीतज्ञः, नाटकरचयिता च सन् सः १९ शतकस्य अन्ते विंशतितमशतकस्य आरम्भे च वङ्गसाहित्यस्य वङ्गसङ्गीतस्य च विनूतनं रूपं प्राददात् । तेन रचितस्य सूक्ष्मसंवेदनयुक्तस्य नवीनस्य उत्कृष्टस्य च गीताञ्जलीकाव्यस्य कृते १९१३ तमेवर्षे नोबेल्-साहित्यप्रशस्तिः प्राप्ता । एतेन सः एशियाखण्डे प्रथमनोबेल्-प्रशस्तिविजेता जातः ।
रवीन्द्रनाथठाकुरः Rabindranath Tagore রবীন্দ্রনাথ ঠাকুর | |
---|---|
Tagore c. 1915, the year he was knighted by George V. Tagore repudiated his knighthood in protest against the Jallianwala Bagh massacre in 1919.[1] | |
जननम् |
Rabindranath Thakur (१८६१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०७)७ १८६१ Calcutta, Bengal Presidency, British India |
मरणम् |
७ १९४१(१९४१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०७) (आयुः ८०) Calcutta, Bengal Presidency, British India |
वृत्तिः | Poet, short story writer, song composer, novelist, playwright, essayist, painter |
भाषा | Bengali, English |
राष्ट्रीयता | India |
परम्परा | Bengali |
प्रमुखकृतयः | Gitanjali, Gora, Ghare-Baire, Jana Gana Mana, Rabindra Sangeet, Amar Shonar Bangla (other works) |
प्रमुखप्रशस्तयः |
Nobel Prize in Literature 1913 |
पतिः/पत्नी | Mrinalini Devi(1883-1902) |
शिशवः | five children, two of whom died in childhood |
बान्धवाः | Tagore family |
| |
हस्ताक्षरम् |
भारतस्य राष्ट्रियद्योतकानि | |
---|---|
ध्वजः | त्रिरङ्गः |
चिह्नम् | सिंहचतुर्मुखम् |
पञ्चाङ्गम् | शकपञ्चाङ्गम् |
राष्ट्रगानम् | जन गण मन |
राष्ट्रगीतम् | वन्दे मातरम् |
पुष्पम् | कमलम् |
फलम् | आम्रम् |
नदी | गङ्गा |
वृक्षः | वटवृक्षः |
पशुः | व्याघ्रः |
जलचरप्राणी | गङ्गानद्याः डोल्फिन् |
कविः | रवीन्द्रनाथ ठाकुर बङ्किमचन्द्र चट्टोपाध्याय |
पक्षी | मयूरः |
नाणकचिह्नम् | रूप्यकम् |
कल्कत्तायाः पिरालिब्राह्मणकुटुम्बे जातः रवीन्द्रः[2][3][4][5] स्वस्य अष्टमे वयसि पद्यरचनम् आरब्धवान् ।[6] स्वस्य षोडशे वयसि सः 'भानुशिङ्घो' (सूर्यसिंहः)[7] इत्येतेन गुप्तनाम्ना प्रथमं महत्त्वपूर्णं पद्यं प्राकाशयत् । १८७७ तमे वर्षे प्रथमां लघुकथां नाटकञ्च अलिखत् । ब्रिटिश्शासनस्य दृढं खण्डनं कुर्वता तेन भारतीयस्वातन्त्र्यान्दोलनस्य प्रोत्साहनं कृतम् । तेन रचिताः कृतयः तेन संस्थापितः विश्वभारतीविश्वविद्यालयश्च जगते तेन दत्तानि प्रमुखानि उपायनानि ।
भारतीयसाम्प्रदायिककठिनसीमातः बहिरागतः रवीन्द्रः वङ्गकलाप्रकाराय नूतनां शोभाम् आनयत् । तेन रचिताः दीर्घकथाः, लघुकथाः, पद्यानि, नृत्यनाटकानि, प्रबन्धाश्च राजनैतिक-सामाजित-व्यक्तिगतविषयान् प्रतिफलन्ति । गीताञ्जली (पद्यानि), गोर (सुन्दरमुखी), घरे बैरे (गृहं प्रपञ्चञ्च) इत्यादयः तस्य प्रसिद्धाः कृतयः । तेन रचितानि पद्यानि, लघुकथाः, दीर्घकथाः च साहित्यमौल्याय, जनभाषाप्रयोगाय, विचारशीलवास्तविकतायाः अभिव्यक्त्यै तत्त्वशास्त्रावलोकनाय च श्लाघार्हाः सन्ति । तेन रचितयोः द्वयोः गीतयोः राष्ट्रमान्यता प्राप्ता अस्ति - जन गण मन भारतस्य राष्ट्रगीतत्वेन, अमर् शोनर् बांला बांदेशस्य राष्ट्रगीतत्वेन अङ्गीकृतमस्ति ।