From Wikipedia, the free encyclopedia
नोबेल् प्रशस्तिः अल्फ्रेड् नोबेल् इत्यस्य मृत्युपत्रानुगुणं व्यक्तेः अथवा संस्थानाम् अत्युच्चजनोपकारककार्यार्थं दीयमानः पुरस्कारः । अधो दर्शितेषु विभागेषु साधकेभ्यः समर्पयन्ति । इयं प्रशस्तिः जगतः सर्वोच्चः पुरस्कारः । क्रि.श. २०११तमवर्षपर्यन्तं ८२६साध्यकेभ्यः २०संस्थाभ्यः च इयं प्रशास्तिः प्रदत्ता अस्ति ।
अल्फ्रेड् नोबेल् वर्यः डैनमैट् इति विस्फोटकरासायनिकस्य संशोधकः । एषः विस्फोटकः विमानयाने विशेषतः उपयोगाय भवति अतः एषः अपारां सम्पत्तिं सङ्गृहीतवान् । किन्तु स्वकारणेन सम्भूतैः मृत्युघातैः विचलितः क्रि.श. १८९५तमे वर्षे स्वस्य सम्पत्तेः ९४%अंशम् अस्याः प्रशस्तेः संस्थापनार्थं विनियोक्तव्यम् इति मृत्युपत्रे अभिलिखितवान् । तदनुगुणं क्रि.श.१९०१तमे वर्षे प्रथमनोबेल्प्रशस्तिः समर्पिता ।
क्रि.श. २००९पर्यन्तं ८भारतीयाः अनया प्रशस्त्या भूषिताः ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.