हिन्दी
From Wikipedia, the free encyclopedia
हिन्दीभाषा सांविधानिकरूपेण भारतस्य एका आधिकारिकभाषा विद्यते । भारते अत्यधिकैः जनैः भाष्यमाणा अवगम्यमाना च भाषा विद्यते । विश्वे अधिकं भाषमाणायाः चीनीभाषायाः अनन्तरं स्थानं हिन्दीभाषायाः । उत्तरभारते अस्याः उपयोगः अधिकः । भारते अन्येषु देशेषु च विद्यमानाः हिन्दी-भाषिणः ६० कोट्यधिकाः सन्ति । एते हिन्दीभाषया सम्भाषन्ते, पठन्ति, लिखन्ति च । फिजी, मारिषस्, गयाना, सूरीनाम् इत्येतेषु देशेषु अधिकाः, नेपालदेशे केचन च हिन्दीभाषया सम्भाषन्ते । हिन्दीभाषा राष्ट्रभाषा, राजभाषा, सम्पर्कभाषा, जनभाषा इत्यादीनि सोपानानि आरुह्य विश्वभाषास्थानस्य अलङ्करणे अग्रेसरा वर्तते । भाषाविकासक्षेत्रे कृतपरिश्रमवतां भाषाविज्ञानिनां भविष्यवाणी हिन्दीभाषाप्रेमिणां सन्तोषदायिका अस्ति । ते वदन्ति यत् विश्वस्तरे अन्ताराष्ट्रियमहत्त्वम् आप्नुवत्सु भाषासु हिन्दी प्रमुखा अस्ति इति ।
मानकहिन्दीभाषा | |
---|---|
मानक हिन्दी | |
देवनागरीलिपियते हिन्दी शब्दः | |
विस्तारः |
भारतम् मारिषस्, दक्षिण-आफ्रिका, संयुक्तराज्यानि अमरिका, केनडा, नेपालः |
स्थानीय वक्तारः | |
भाषाकुटुम्बः | |
लिपिः |
|
आधिकारिकस्थितिः | |
व्यावहारिकभाषा | भारतम् |
नियन्त्रणम् | केन्द्रीयहिन्दी आयुक्तः (भारतम्)[1] |
भाषा कोड् | |
ISO 639-1 | hi |
ISO 639-2 | hin |
ISO 639-3 | hin |
LINGUIST List | hin-hin |
Linguasphere | 59-AAF-qf |