वि वि गिरि
From Wikipedia, the free encyclopedia
वराहगिरिः वेङ्कटगिरिः अथवा वि. वि. गिरिः कश्चित् भारतीयः राजनेता । एषः क्रि.श. १८९४तमे वर्षे ओरिस्साराज्यस्य ब्रह्मपुरे अजायत । अस्य पिता जोगय्य पन्तुलु न्यायवादी आसीत् । तदीयः द्वादशबालानां बृहत्कुटुम्बः। वेङ्कटगिरेः प्राथमिकविद्याभ्यासः महाविद्यालयाध्ययनं च ब्रह्मम्पुरे एव अभवत् । सः भारतदेशस्य चतुर्थ: राष्ट्रपति: इति निर्वाचितः। यदा बाङ्ग्लादेशः इति राष्ट्रं निर्मितं तदा सः भारतराष्ट्रस्य राष्ट्रपतिः आसीत् [1]। सः उच्चतमेन नागरपुरस्कारेण भारतरत्नप्रशस्त्या सम्मानितः ।
त्वरिततथ्यानि वराहगिरिः वेङ्कटगिरिः, भारतस्य राष्ट्रपतिः ...
वराहगिरिः वेङ्कटगिरिः | |
---|---|
भारतस्य राष्ट्रपतिः | |
कार्यालये क्रि.श. १९६९तमवर्षस्य अगस्टमास्य २४तमदिनम् । – क्रि.श. १९७४तमवर्षस्य अगस्टमास्य २४तमदिनम् । | |
उपराष्ट्रपतिः | गोपालस्वरूपः पाठकः |
पूर्वगमः | मुहम्मद हिदायतुल्लाहः |
पादानुध्यातः | फ़ख़रुद्दीन अली अहमदः |
कार्यकारी भारतस्य राष्ट्रपतिः | |
कार्यालये क्रि.श. १९६९तमवर्षस्य मे मासस्य तृतीयदिनम् । – क्रि.श. १९६९तमवर्षस्य जुलैमासस्य २०तमदिनम् । | |
पूर्वगमः | डा.ज़ाकिर् हुसैन् |
पादानुध्यातः | मुहम्मद हिदायतुल्लाहः |
भारतस्य तृतीयः राष्ट्रपतिः | |
कार्यालये क्रि.श. १९६७तमवर्षस्य मे माससस्य त्रयोदशदिनम् । – क्रि.श. १९६९तमवर्षस्य मे मासस्य तृतीदिनम् । | |
राष्ट्रपतिः | ज़ाकिर हुसैन |
पूर्वगमः | डा.ज़ाकिर् हुसैन् |
पादानुध्यातः | गोपालस्वरूपः पाठकः |
व्यक्तिगत विचाराः | |
जननम् | क्रि.श. १८९४तमवर्षस्य आगस्ट् मासस्य दशमदिनम् । बर्हाम्पुरम्, गञ्जाममण्डलम्, भारतम् |
मरणम् | क्रि.श. १९८०तमवर्षस्य जून् मासस्य २३तमदिनम् । चेन्नै, तमिळ्नाडु |
राष्ट्रीयता | भारतीयः |
राजनैतिकपक्षः | निर्दलीयः |
पतिः/पत्नी | सरस्वतीबायी |
पिदधातु