भारतम्
एकः देशः / From Wikipedia, the free encyclopedia
भारतम्, आधिकारिकतया भारतगणराज्यम् (Bhārata Ganarājyam) दक्षिण एशियायाः एकः देशः अस्ति । क्षेत्रफलेन सप्तमः बृहत्तमः देशः, विश्वस्य सर्वाधिकजनसंख्यायुक्तः देशः च अस्ति । दक्षिणे हिन्दमहासागरः, दक्षिणपश्चिमदिशि अरबसागरः, दक्षिणपूर्वदिशि बङ्गलखातेन च परिसीमितः अस्य पश्चिमदिशि पाकिस्तानदेशेन सह स्थलसीमाः सन्ति; उत्तरदिशि चीनदेशः, नेपालः, भूटानदेशः च पूर्वदिशि च बाङ्गलादेशः, म्यान्मारदेशः च। हिन्दमहासागरे भारतं श्रीलङ्कायाः मालदीवस्य च समीपे अस्ति; तस्य अण्डमान-निकोबार-द्वीपाः थाईलैण्ड्-म्यांमार-इण्डोनेशिया-देशयोः समुद्रीयसीमाम् अङ्गीकुर्वन्ति।
| |||||
ध्येयवाक्यम्: सत्यमेव जयते (संस्कृतम्) | |||||
राष्ट्रगीतम्: जन गण मन (संस्कृतम्) | |||||
राजधानी | नवदिल्ली 28° 34' N 77° 12' E | ||||
बृहत्तमं नगरम् | मुम्बई (नगरसम्यक्) दिल्ली (महानगरीयक्षेत्रम्) | ||||
देशीयता | भारतीय | ||||
व्यावहारिकभाषा(ः) | हिन्दी, आङ्ग्लभाषा | ||||
प्रादेशिकभाषा(ः) | |||||
राष्ट्रीयभाषा(ः) | संविधानरीत्या किमपि नास्ति | ||||
सर्वकारः | लोकतान्त्रिक शासनम् | ||||
- राष्ट्रपति: | द्रौपदी मुर्मू | ||||
- उपराष्ट्रपति: | जगदीप धनखड | ||||
- लोकसभाध्यक्ष: | ओम् बिडला | ||||
- प्रधानमन्त्री | नरेन्द्र मोदी | ||||
- मुख्य न्यायाधीश: | उदय उमेश ललितः | ||||
विधानसभा | भारतीयसंसदः | ||||
- ज्येष्ठसदनम् | राज्यसभा | ||||
- कनिष्ठसदनम् | लोकसभा | ||||
स्वतन्त्रता | संयुक्ताधिराज्यतः | ||||
- दिनम् | १५ अगस्त, १९४७ | ||||
- महाराज्यम् | २६ जनवरी, १९५० | ||||
विस्तीर्णम् | |||||
- आविस्तीर्णम् | ३२,८७,५९० कि.मी2 (सप्तमम्) | ||||
१२,२२,५५९ मैल्2 | |||||
- जलम् (%) | ९.५६ | ||||
जनसङ्ख्या | |||||
- २०२१स्य माकिम् | १,४०,७५,६३,८४२ (द्वितीया) | ||||
- २०११स्य जनगणतिः | १,२१,०८,५४,९७७[1] (द्वितीया) | ||||
- सान्द्रता | ५१६.९/कि.मी2(१९तमी) १,०७९.८/मैल्2 | ||||
राष्ट्रीयः सर्वसमायः (PPP) | २०२२ अनुमानम्स्य माकिम् | ||||
- आहत्य | $१.१७४५ नीलम्[2] (तृतीयः) | ||||
- प्रत्येकस्य आयः | $८,३५८[3] (१२८तमः) | ||||
राष्ट्रीयः सर्वसमायः (शाब्द) | २०२२ अनुमानम्स्य माकिम् | ||||
- आहत्य | $३५.३५ खर्वम् (पञ्चमः) | ||||
- प्रत्येकस्य आयः | $२,६०१[3] (१४१तमः) | ||||
Gini(२०११) | ३५.७ (९८तमी) | ||||
मानवसंसाधन सूची (२०१९) |
०.६४५ (मध्यमा)([[List of countries by Human Development Index|१३१तमी]]) | ||||
मुद्रा | भारतीयरूप्यकम् (₹) (INR ) | ||||
कालमानः | भारतीयमानकसमयः (UTC+०५:३०) | ||||
- ग्रीष्मकालः (DST) | न अनुसृयते (UTC+०५:३०) | ||||
वाहनचालनविधम् | वामतः | ||||
अन्तर्जालस्य TLD | .in इतर TLD
.ভারত
.ભારત | ||||
दूरवाणीसङ्केतः | +९१ |
भारतम्, आधिकारिकरूपेण भारतमहाराज्यम्, दक्षिणजम्बुद्वीपे स्थितं महाराज्यं वर्तते । जनसङ्ख्यादृष्ट्या एषः देशः विश्वे प्रथमः स्थाने विद्यते । विश्वे प्रसिद्धो जनतन्त्रयुतः देशः एषः ।
एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदया प्रसिद्धः अस्ति । हिन्दुधर्मः,बौद्धधर्मः,जैनधर्मः, सिखधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तमतम्, इस्लाम च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण ईस्टीण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् ।
भारतस्य अर्थव्यवस्था विश्वे पञ्चमे स्थाने प्राप्नोति । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य । सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । भारतीयसंसदे सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।
- मुख्यलेखः : भारतस्य विविधनामानि
भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् । अस्य नाम्नः उद्गमं प्रति विविधाः पारम्पर्यकथाः प्रचलिताः वर्तन्ते । ऋषभपुत्रेण राजर्षिभरतेन दुष्यन्तपुत्रेण भरतेन च परिपालितस्याः अस्या भूमेः भारतम् इति नाम रूढिगतम् इत्येका कथा। अथावा पुरुवंशो पूर्वं भरतः इति महान् चक्रवर्तीराजा आसीत् तेन प्रशासितायाः भूमेः इदम् नाम आगतम् इत्यन्या। अथवा विष्णुपुराणे उक्तं यथा....इत्यपि च ॥
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥
जय श्री राम ।