![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/sa/thumb/b/b7/Mum12.jpg/640px-Mum12.jpg&w=640&q=50)
मुम्बई
From Wikipedia, the free encyclopedia
मुम्बई (मराठी: मुंबई) महाराष्ट्रराज्यस्य राजधानी अस्ति । एतन्नगरं भारतदेशस्य विशालं, प्रगतं च नगरम् । भारते लोकसङ्ख्यादृष्ट्या प्रथमस्थाने, पृथिव्यां द्वितीयस्थाने च वर्तते एतन्नगरम् । भारतस्य पश्चिमे, समुद्रतटे एतद् नगरं स्थितम् । अरबी-समुद्रतटे यानि नौकास्थानानि सन्ति तेषु अन्यतमं सर्वोत्कृष्टमिदम् । इदं मुम्बई महानगरं गगनस्पर्शिभवनैः आभारतम् एव अद्वितीयम् अस्ति । विश्वे २५ बृहन्नगरेषु अन्यतममिदम् । भारतदेशे वर्तमानेषु नगरेषु द्वितीयं बृहन्नगरम् । 'बोलिवुड्' नाम्ना प्रसिद्धः हिन्दी-चलच्चित्रोद्यमः इतः एव प्रवर्तते । मुम्बादेव्याः देवालयः अत्र अस्ति । अतः नगरस्य 'मुम्बापुरी' इति नाम आसीत् इति कथ्यते । आङ्गलानां प्रशासनकाले 'बॉम्बे' नाम्ना प्रख्यातम् अभवत् । लघु-’धाकटा’ कुलाबा, बृहत्-'मोठा' कुलाबा, मुम्बई, माझगाव, परळ, वरळी, माहीम इत्येतानां द्वीपानां एकत्रीकरणेन मुम्बईनगरं निर्मापितम् । इदानीं मुम्बई इति अधिकृततया नाम दत्तम् अस्ति ।
मुम्बईमहानगरम् मुम्बई | |
---|---|
देशः | भारतम् |
राज्यम् | महाराष्ट्रराज्यम् |
मण्डलम् | मुम्बईमण्डलम्, मुम्बई-उपनगर-मण्डलम् |
महानगरविस्तारः | ६०३ च.कि.मी. |
जनसङ्ख्या(२०११) | १,८४,१४,२८८ |
Government | |
• Type | महापौरपरिषद्-सर्वकारः(Mayor–council government) |
• Body | बृहन्मुम्बई म्युनिसिपल् कोर्पोरेशन्, |
• महापौरः | महाडेश्वर कुलोत्पन्ने विश्वनाथः। |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Area code(s) | ०२२ |
Vehicle registration | एम् एच् १ – १० |
साक्षरता | ९०.७८% |
भाषाः | मराठी, हिन्दी च |
Website | [www.mcgm.gov.in] |
![Thumb image](http://upload.wikimedia.org/wikipedia/sa/thumb/b/b7/Mum12.jpg/320px-Mum12.jpg)
![बॉम्बे स्टाक् एक्स्चेञ्ज्](http://upload.wikimedia.org/wikipedia/commons/thumb/e/e5/Bombay-Stock-Exchange-2.jpg/320px-Bombay-Stock-Exchange-2.jpg)
![फ्लोरा फौण्टन्](http://upload.wikimedia.org/wikipedia/sa/thumb/f/fe/Flora-Fountain%E0%A5%A8.jpg/320px-Flora-Fountain%E0%A5%A8.jpg)
![मुम्बई आन्ताराष्ट्रियविमानपत्तनम्](http://upload.wikimedia.org/wikipedia/sa/thumb/4/43/Mu%E1%B9%83airport.jpg/320px-Mu%E1%B9%83airport.jpg)
![बॉम्बे स्टाक् एक्स्चेञ्ज्](http://upload.wikimedia.org/wikipedia/commons/thumb/d/d7/The_Chhatrapati_Shivaji_Terminus_%28CST%29.jpg/640px-The_Chhatrapati_Shivaji_Terminus_%28CST%29.jpg)
![मरीन ड्राइव्, मुम्बई नगरस्य एक: सागरतट:](http://upload.wikimedia.org/wikipedia/sa/thumb/3/32/Marine_drive2.jpg/320px-Marine_drive2.jpg)