न्यायदर्शनम्
आस्तिक दर्शनम् / From Wikipedia, the free encyclopedia
न्यायदर्शनं (Nyaya) भारतीयदर्शनेषु अन्यतमम् । वैदिकदर्शनेषु न्यायशास्त्रस्यापि गणना विधीयते । प्राचीनैरप्युक्तं यत् आन्वीक्षिकी सर्वासां विद्यानां मूलमस्ति । काव्यमीमांसायाः लेखकः राजशेखरोऽपि कौटिल्यसम्मतान् विद्याभेदान् आन्वीक्षिकी-त्रयीवार्त्ता-दण्डनीतिसंज्ञाभिरभिहितवान् । स्वयं कौटिल्यः आन्वीक्षिकीं सर्वासां विद्यानां प्रदीपभूतां सर्वेषां कार्याणाम् उपायरूपां, सर्वेषां धर्माणां आश्रयरूपां च प्रतिपादितवान् । फलतः विद्यायाः आन्वीक्षिकीत्याख्यं रूपं स्वरूपं न्यायशास्त्रस्य प्रतिपादनाय परमोपयोगि अस्ति ।
प्रमाणैः पदार्थानां परीक्षणं न्याय उच्यते । एवञ्चेत् न्यायविद्यायाः प्रतिपादनमेव न्यायदर्शनस्य प्रयोजनमस्ति । केषाञ्चन विदुषां मतानुसारेण न्यायशास्त्रे अनुमानस्य प्राधान्यमस्ति अत एव पञ्चावयववाक्यं न्यायः इत्यपि उक्तिर्व्यवहृता दृश्यते । तेन सिद्ध्यति यत् न्यायशास्त्रे अनुमानस्य विश्लेषणं सर्वाधिकमहत्वपूर्णमस्ति । आन्वीक्षिकी न्यायेन कथं साम्यम् आदत्ते इत्यस्मिन् सन्दर्भे इदं वक्तुं शक्यते यत् प्रत्यक्षदृष्टानां शास्त्रश्रुतानां च विषयाणां तात्त्विकस्वरूपस्य ज्ञापयित्री विद्या आन्वीक्षिकी भवति इति। व्युत्पत्त्यनुसारं तु प्रत्यक्षागमाभ्याम् ईक्षितस्य अन्वीक्षणं यस्यां सा आन्वीक्षिकी इति स्वीक्रियते । न्यायस्य प्रतिपाद्यमपि एवंविधमेवास्ति, अतः उभयोः साम्यमस्ति ।
न्यायविद्यायाः मूलस्रोतसः कालनिर्णयस्य दृष्ट्या इदं तु सम्भवं नास्ति यत् अमुककालेऽस्य शास्त्रस्योत्पत्तिः संजाता, किन्तु उपनिषत्सु विशेषतो बृहदारण्यके स्मृतिज्ञानचर्चायां तर्कस्योपस्थापना दृश्यते । तेन अनुमीयते यत् उपनिषत्कालात्पूर्वमेव न्यायस्य प्रारम्भिकं स्वरूपं तर्करूपेण वादविद्यारूपेण वा समुद्भूतम् । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इति वचनद्वारा श्रवणेन सह मननस्यापि उपदेशो विहितः । मननं पुनः तर्कानुकूलं उपयोगि भवितुं शक्नोति । एवमेव मीमांसादर्शने मूलतः श्रौतकर्मणः प्रसङ्गे विरोधपरिहारस्य कृते तर्कपद्धतेराश्रयो गृहीतः । पदार्थानां परिकल्पनायाः आश्रयभूताः उपनिषदः एव इत्यपि तत्र सूचितम् । तेन स्पष्टीभवति यद् वैदिकसाहित्यमेव न्यायदर्शनस्य मूलस्रोतो विद्यते । तदेव च तदुत्पत्तेः तत्परिकल्पनाया वा आधारोऽस्ति । अर्थात् न्यायशास्त्रम् अर्वाचीनं नास्ति प्रत्युत वैदिकसाहित्ये तदीयप्रतिपाद्यस्य मूलरूपेण विद्यमानतया यथा वेदानां प्राचीनता मन्यते तथैव न्यायशास्त्रस्य प्राचीनताऽसन्दिग्धाऽस्ति ।