राजशेखरः
From Wikipedia, the free encyclopedia
राजशेखरः (Rajashekhar) स्वनाटकप्रस्तावनासु स्वजीवनसम्बन्धे यदुक्तवांस्तदाधारेण यायावरवंशेऽस्य जन्माऽऽसीत् । अयं राजशेखरो महाराष्ट्रदेशीय अकालजलदस्य पौत्रः दर्दुकस्य शीलवत्याश्च पुत्र आसीत् । अयं क्षत्रियकन्यां चौहानवंशोद्भवाम् अवन्तिसुन्दरीं नाम ललनामुपयेमे । इयमवन्तिसुन्दरी महाविदुषी बभूव । राजशेखरः पाकपरिभाषाविषये तन्मतमप्युपन्यस्तवान् । यथा- ‘आग्रहपरिग्रहादपि पदस्थैर्व्यवसायः, तस्मात्पदानां परिवृत्तिवैमुख्यं पाक इति वामनः । ‘इयमशक्तिर्न पुनः पाकः’ इत्यवन्तिसुन्दरी । हेमचन्द्रः देशीयनाममालायाम् अवन्तिसुन्दरीकृतं ‘देसीयशाब्दकोषम्’ स्मृतवान्, तथाऽवन्तिसुन्दर्या कृतं कतिपयशब्दानां नवस्यार्थस्य चर्चामपि कृतवान् । अवन्तिसुन्दर्याः प्राकृतकविताप्रियतायाः प्रमाणमिदं यत्तदनुरोधेनैव राजशेखरः कर्पूरमञ्जरीसट्टकं प्राकृतभाषामयं निर्मितवान् ।
महाराष्ट्रदेशोद्भवोऽयं कान्यकुब्जराजस्योपाध्यायपदमलंकृतवान् । एतदाश्रयदातुर्नाम महेन्द्रपाल इत्यासीद्यः प्रतिहारवंश्यनृपेषु गौरवशाली समाख्यातः । एतदादेशेनैव बालरामायणं प्रथममभिनीयते स्म । कियतः कालस्य कृतेऽयमन्यं कञ्चन नृपमप्याश्रयत् । यदादेशेन विध्दशालभञ्जिकाया अभिनयो जातः । महेन्द्रपालानन्तरमयं पुनस्तत्तनयस्य महीपालस्य सभ्यभावेन स्थितः यदादेशेन बालभारतस्याभिनयः प्रथमं पदमधत्त ।
एषां राज्ञां कालस्य पर्यालोचनया राजशेखरस्य कालः ख्रीष्टनवमशतकस्यावसानभागो दशमशतकस्य पूर्वभागश्च सिद्धयति । यं महेन्द्रपालमयं स्मरति तेन कारितौ शिलालेखौ १०३, १०७ ख्रीष्टाब्दयोरुत्कीर्णौ, नवमशतकोत्पन्नमानन्दवर्धनमयमुध्दरति, मुञ्जस्य (९७५-९९३) कृपाश्रयेण धनञ्जयेन चायं स्मर्यते, (सर्वमपीदम्मदुक्तमनुमोदयति) ।