जाकिर हुसैन
From Wikipedia, the free encyclopedia
डा. जाकिर हुसैन ( ( शृणु) /ˈdʒɑːkiːrəhʊsɛɪnə/) (हिन्दी: जाकिर हुसैन , आङ्ग्ल: Zakir Hussain) भारतस्य सुयोग्यः, शिक्षाविदः राष्ट्रपतिः (१९६७-१९६९) आसीत् । भारतीयधर्मनिरपेक्षतायाः साक्षी इदम् अस्ति यत्, भारतस्य सर्वोत्कृष्टे स्थाने (राष्ट्रपतिपदे) मुस्लिम-देशभक्ताः अपि आरूढाः भवन्ति । १९४७ तमे वर्षे कृतं धर्माधारितं भारतविभाजनं पाकिस्थानस्य जनकः अभूत् । तथापि भारतस्य धर्मनिरपेक्षतायाः विचाराः शिथिलाः नाभूवन् । एवं भारतस्य स्वतन्त्रतान्दोलनस्य देशभक्तः नेता डा. जाकिर हुसैन राष्ट्रपतित्वेन चितः । डा. सर्वपल्ली राधाकृष्णन्-महाभागः यदा राष्ट्रपतिः आसीत्, तदा डा. जाकिर हुसैन उपराष्ट्रपतिपदारूढः आसीत् । डा. सर्वपल्ली राधाकृष्णन्-महाभागस्य कार्यकाले समाप्ते सति १९६७ तमस्य वर्षस्य ‘मई’-मासस्य नवमे (९) दिनाङ्के राष्ट्रपतिनिर्वाचने डा. जाकिर हुसैन बहुमतेन चितः । १९६७ तमस्य वर्षस्य ‘मई’-मासस्य त्रयोदशे (१३) दिनाङ्के डा. जाकिर हुसैन राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकरोत् । राष्ट्रपतिभवनप्रवेशसमनन्तरं विशालभवनस्थानि विलासवस्तूनि दृष्ट्वा तस्य मुखात् सहसा निर्गतम्, “एतस्मिन् राजभवने त्यागिवत् जीवनयापनं कुर्वन् स्वदायित्वं निर्वहामि इति प्रार्थनां कुर्वन्तु” ।
डा. जाकिर हुसैन | |
---|---|
भारतस्य तृतीयः राष्ट्रपतिः | |
कार्यालये १३/५/१९६२ – १३/५/१९६७ | |
प्रधानमन्त्री | इन्दिरा गान्धि |
उपराष्ट्रपतिः | श्रीवराहगिरि वेङ्कट गिरि |
पूर्वगमः | श्रीसर्वपल्ली राधाकृष्णन् |
पादानुध्यातः | श्रीवराहगिरि वेङ्कट गिरि |
व्यक्तिगत विचाराः | |
जननम् | ८/२/१८९७ हैदराबाद-महानगरम् |
मरणम् | ३/५/१९६९ (आयुः ७२) देहली-महानगरं, भारतम् |
राजनैतिकपक्षः | स्वतन्त्रः |
पतिः/पत्नी | शाहजहां बैगम |
अपत्यानि | द्वे पुत्र्यौ |
मुख्यशिक्षणम् | अलीगढ-मुस्लिम-विश्वविद्यालयः, देहली-विश्वविद्यालयः, हम्बोल्ट् विश्वविद्यालयः - बर्लिन् (जर्मनी) |
वृत्तिः | दर्शनशास्त्री, प्राध्यापकः च |
धर्मः | मुस्लिमधर्मः |