भारतस्य राष्ट्रध्वजः
From Wikipedia, the free encyclopedia
भारतस्य राष्ट्रध्वजः ( ( शृणु) /ˈbhɑːrətəsjə rɑːʃhtrəðvədʒəh/) (हिन्दी: राष्ट्रध्वज, आङ्ग्ल: Flag of India) त्रिरङ्गः इति प्रसिद्धः । त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण अशोकचक्रेण सुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधित्वं करोति । राष्ट्रध्वजस्य परिकल्पना पिङ्गलि वेङ्कय्य-नामकेन देशभक्तेन कृता आसीत् । भारतस्वतन्त्रतादिनात् पञ्चविंशतिदिनेभ्यः पूर्वम् अर्थात् १९४७ तमस्य वर्षस्य 'जुलाई'-मासस्य द्वाविंशतितमे (२२/७/१९४७) दिनाङ्के भारतीयसंविधानसभा एनं ध्वजं राष्ट्रध्वजत्वेन स्व्यकरोत् ।
नाम | त्रिरङ्गा; तिरङ्गा |
---|---|
व्यवहारः | राष्ट्रियध्वजः |
अनुपातः | २:३ |
गृहीतः | २२/७/१९४७ |
विन्यासः | तिर्यक् त्रिरङ्गध्वजः (केसररङ्गः, श्वेतरङ्गः, हरितरङ्गः च । मध्ये चतुर्विंशतिः अरात्मकं, नीलवर्णीयम् अशोकचक्रं विद्यते । |
विन्यासकर्ता | पिङ्गलि वेङ्कय्य[1] |
भारतस्य राष्ट्रियद्योतकानि | |
---|---|
ध्वजः | त्रिरङ्गः |
चिह्नम् | सिंहचतुर्मुखम् |
पञ्चाङ्गम् | शकपञ्चाङ्गम् |
राष्ट्रगानम् | जन गण मन |
राष्ट्रगीतम् | वन्दे मातरम् |
पुष्पम् | कमलम् |
फलम् | आम्रम् |
नदी | गङ्गा |
वृक्षः | वटवृक्षः |
पशुः | व्याघ्रः |
जलचरप्राणी | गङ्गानद्याः डोल्फिन् |
कविः | रवीन्द्रनाथ ठाकुर बङ्किमचन्द्र चट्टोपाध्याय |
पक्षी | मयूरः |
नाणकचिह्नम् | रूप्यकम् |
राष्ट्रध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः सन्ति । तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च अस्ति । ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे नीलवर्णीयम् अशोकचक्रं विद्यते । तस्य चक्रस्य चतुर्विंशतिः अराः (spokes) सन्ति । तस्य चक्रस्य व्यासः श्वेतपट्टिकायाः दीर्घतानुगुणं भवति । महात्मना प्रचारितेन खादि-वस्त्रेण निर्मितः राष्ट्रध्वजः एव सांविधानिकरीत्या मान्यः । कोऽपि रेशम-वस्त्रेण निर्मितस्य राष्ट्रध्वजस्य यदि उपयोगं कर्तुम् इच्छति, तर्हि कर्तुं शक्नोति ।