![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d1/Portrait_Gandhi.jpg/640px-Portrait_Gandhi.jpg&w=640&q=50)
महात्मा गान्धी
From Wikipedia, the free encyclopedia
महात्मा गान्धी इति प्रसिद्धः मोहनदासकरमचन्द गान्धी ( ( शृणु) (/ˈməhɑːtmɑː ɡɑːndhiː/)) (गुजराती: મોહનદાસ કરમચંદ ગાંધી, आङ्ग्ल: Mohandas Karamchand Gandhi) (क्रि.श.१८६९-१९४८) गुजरातराज्यस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः रवीन्द्रनाथ ठाकुरः तं महात्मा[2] इति शब्देन सम्बोधितवान् । ततः पश्चात् सर्वे भारतीयाः तं महात्मा गान्धी इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धी स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्तीपर्व राष्ट्रियपर्वरूपेण आचर्यते । दक्षिणआफ्रिकादेशेऽपि महात्मा गान्धी उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्द गान्धी राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदास गान्धी साधारणबालकः आसीत् । मोहनदास गान्धी राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदयः सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रतः आसीत् । सः वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।
महात्मा गान्धी | |
---|---|
![]() | |
जन्म |
मोहनदासः (१८६९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०२)२ १८६९ पोरबन्दर्, काठियावाड एजेन्सि, ब्रिटिश्-शासित-भारतम्[1] (अधुना गुजरातराज्यम्, भारतम्) |
मृत्युः |
३० जनवरी १९४८(१९४८-०१-३०) (आयुः ७८) देहली, भारतम् |
मृत्योः कारणम् | गोलिकया हत्या अभवत् । |
शान्तिस्थानम् |
राज घाट, देहली (हत्या अभवत्) 28.6415°उत्तरदिक् 77.2483°पूर्वदिक् / २८.६४१५; ७७.२४८३ |
देशीयता | भारतीयः |
अन्यानि नामानि | महात्मा गान्धी, बापू, गान्धीजी |
शिक्षणस्य स्थितिः |
शामलदास-महाविद्यालयः, भावनगरम्, इन्नर् टेम्पल्, लन्दन |
वृत्तिः |
राजनैतिज्ञः, बैरिस्टर, Political writer, पत्रकार, दार्शनिक, autobiographer, निबंधकार, newspaper editor, civil rights advocate, संस्मरण लेखक, humanitarian, peace activist, क्रांतिकारी, साहित्यकारः, धार्मविद्य, स्वतंत्रता सेनानी ![]() |
कृते प्रसिद्धः | सत्यम्, अहिंसा च |
धर्मः | हिन्दूधर्मः |
भार्या(ः) | कस्तूरबा |
अपत्यानि |
हरिलाल मुनिलाल रामदासः देवदासः |
पितरौ |
पुतलीबाई गान्धी (माता) करमचन्द गान्धी (पिता) |
जालस्थानम् | www.mkgandhi.org |
हस्ताक्षरम् | |
![]() | |
विशेषम् | |
વૈષ્ણવ જન તો તેન રે કહીએ, પીડ પરાઈ જાણે રે.... (नरसिंह महेता-द्वारा रचितं गीतम्) |