अग्निः
From Wikipedia, the free encyclopedia
अग्निः ( ( शृणु) /ˈəɡnɪhɪ/) (हिन्दी: अग्नि, आङ्ग्ल: Fire) पञ्चभूतेष्वन्यतमस्तथा तेजसोऽभिमानिदैवतम् । अयं भगवतो मुखात् समुत्पन्नः । दक्षप्रजापतेर् आत्मजा स्वाहा अग्निदेवस्य पत्नी । इक्ष्वाकुवंशसमुद्भूतस्य दुर्योधनस्यात्मजा सुदर्शना अस्यापरा पत्नी । अर्जुनस्याश्रये खाण्डववनं दग्धवान् । तदवसरेऽग्निरर्जुनाय कपिध्वजोपेतं रथं गाण्डीवधनुर् अक्षयतूणीरं च प्रायच्छत् । अग्निनैव श्रीकृष्णाय चक्रायुधं प्रदत्तम् । अयं भृगुमुनेः शापकारणेन सर्वभक्षकोऽभवत् । इन्द्राय यदा ब्रह्मवधदोषः सम्प्राप्तस्तदा दोषस्य चतुर्ष्वंशेष्वेकोऽंशोऽग्निना स्वीकृतः । रामायणे सीतायाः पातिव्रत्यम् अग्निना लोकमुखायोपदर्शितम् । अनल इति तस्यापरं नाम ।| नास्त्यलं पूर्तिरस्य भुञ्जानस्येति कारणेनानल इत्युच्यते ।
त्वरिततथ्यानि
पिदधातु