गिजुभाई बधेका
From Wikipedia, the free encyclopedia
गिजुभाई बधेका ( ( शृणु) /ˈɡɪdʒʊbhɑː bəðɛkɑː/) (गुजराती: ગિજુભાઈ બધેકા, आङ्ग्ल: Gijubhai Badheka) गुजरातराज्यस्य सर्वोत्कृष्टेषु शिक्षकेषु अन्यतमः । बालशिक्षणस्य क्षेत्रे अद्वितीयकार्यत्वात् आभारतं सः स्मर्यते । बालानां सश्मश्रुः माता (મુછાળી માઁ) इति सः प्रसिद्धः [2] । यतो हि माता यथा स्वपुत्रस्य हितं चिन्तयन्ती आजीवनं समर्पयति, तथैव सः बालानां भविष्यस्य रक्षणार्थं, योग्यविकासस्य मार्गान्वेषणे च स्वस्य सम्पूर्णं जीवनं समार्पयत् । अप्रशिक्षितानां शिक्षकाणाम् अत्याचारैः भारतीयभविष्यस्य विकासः अवरुद्धः आसीत् । तस्य अवरोधस्य समाधानं कृत्वा स्वनवीनविचारैः तेन बालशिक्षणक्रान्तिः कृता ।
त्वरिततथ्यानि गिरजाशङ्करः ગિજુભાઈ બધેકા, जन्म ...
गिरजाशङ्करः ગિજુભાઈ બધેકા | |
---|---|
![]() सश्मश्रुः माता (મુછાળી માઁ) | |
जन्म |
५/११/१८८५ वळा-ग्रामः, गुजरातराज्यस्य सौराष्ट्रविभागः |
मृत्युः |
२३/६/१९३९ मुम्बई-महानगरं, महाराष्ट्रराज्यम् |
अन्यानि नामानि |
गिरजाशङ्करः, सश्मश्रुः माता (મુછાળી માઁ), विनोदी, बालानां रक्षकः (બાળકોનાં બેલી) [1] |
वृत्तिः |
लेखक, Children's writer ![]() |
कृते प्रसिद्धः | बालशिक्षणस्य क्रान्तिकारी |
भार्या(ः) | हरिबेन |
अपत्यानि | नरेन्द्र |
जालस्थानम् |
https://www.gijubhaibadheka.in/ ![]() |
पिदधातु
स्वस्य शिक्षणेन सः जनान् अबोधयत् -
“ | भारतस्य भविष्यं बालाः सन्ति । तेषां योग्यरीत्या मानसिकविकासः, शारीरिकविकासः, आध्यात्मिकविकासः च पितरोः, शिक्षकाणां, समाजस्य च दायित्वम् अस्ति । अन्ततो गत्वा बालकानां भविष्यम् एव अस्माकं सर्वेषां भविष्यम् अस्ति । अतः पूर्णशक्त्या बालविकासस्य दायित्वं सर्वैः ऊह्यम् एव । | ” |