देहली
भारतस्य महानगरम् केन्द्रशासितप्रदेशः च यस्मिन् नवदेहली अन्तर्भवति / From Wikipedia, the free encyclopedia
इन्द्रप्रस्थम् अथवा देहली (हिन्दी: दिल्ली) भारतस्य एकं नगरं केन्द्रशासितप्रदेशः च अस्ति यत्र भारतस्य राजधानी नवदेहली अस्ति । इन्द्रप्रस्थं विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य द्वितीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी प्राचीनकाले हस्तिनापुरम् इति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्ग्लानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधानीपदमलङ्करोति । भारतदेशस्य महानगरेषु देहलीनगरम् अन्यतमम् अस्ति । प्राचीनकालादपि देहली भारतस्य राजधानी अस्ति । अस्य नगरस्य सहस्रवर्षस्य इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयानां च राजधानीति प्रसिद्धमेतत् । हिन्दु-मुसलमान्-मोगल इत्यादि वंशीयाः अत्र प्रशासनं कृतवन्तः । आङ्ग्लाः अपि क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा क्रिस्ताब्दस्य १९४७ पर्यन्तं प्रशासनं कृतवन्तः । स्वातन्त्र्यप्राप्तेः अनन्तरमपि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशानां महाद्वारमिव अस्ति । राजकीयकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च एतत् । अत्र अनेकानि वास्तुशिल्पानि क्रिस्ताब्दे १९३० समये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनाकारः आसीत् ।
इन्द्रप्रस्थम् दिल्ली देहली | |
---|---|
देहली राष्ट्रियराजधानीप्रदेशः | |
लोटस् टेम्पल्, हूमायूनस्य स्मारकम्, कन्नाट् प्लेस्, अक्षरधाम, इण्डियागेट् च। | |
देशः | भारतम् |
Federal district | राष्ट्रियराजधानीक्षेत्रम् |
निवसितम् | १६३८ |
समावेशितम् | १८५७ |
राजधानीनिर्माणम् | १९११ |
राजधानी | नवदेहली |
मण्डलानि | ११ |
Government | |
• Body | देहलीसर्वकारः |
• मुख्यमन्त्री | अरविन्द केजरीवाल (आप) |
• उपराज्यपाल: | अनिल बैजाल |
Area | |
• केन्द्रशासितप्रदेशः | १४८४.० km२ |
• Land | १५९.० km२ |
• Water | १८ km२ |
Elevation | ०–१२५ m |
Population (२०११) | |
• केन्द्रशासितप्रदेशः | १,६७,८७,९४१ |
• Density | ११,३१२/km२ |
• Metro | २,८५,१४,००० (प्रथम) |
• नागरीय | १,६३,४९,८३१ (द्वितीय) |
Demonym(s) | दिल्लीवाले |
भाषाः | |
• अधिकारिकः | हिन्दी, आङ्ग्लभाषा |
• अतिरिक्त अधिकारिकः | पञ्जाबी, उर्दू |
Time zone | UTC+५:३० (भा॰मा॰स॰) |
पत्रसङ्केतसङ्ख्या ZIP code(s) |
110001-110098, 1100xx |
Area code(s) | +91 11 |
Website | delhi.gov.in |