भारतस्य मण्डलानि
From Wikipedia, the free encyclopedia
’मण्डलम्’ , 'जनपदम्’ , 'जिल्ला’ इत्यादिभिः पदैः निर्दिष्टानि नामानि आङ्लभाषायाः "District" इति अर्थं सूचयन्ति । कार्यनिर्वहणदृष्ट्या राज्यस्य अथवा केन्द्रशासितप्रदेशस्य मण्डलैः विभागः कृतः दृश्यते । तानि मण्डलानि पुनश्च उपमण्डलैः विभक्तानि भवन्ति । राज्यस्य वा केन्द्रशासितप्रदेशस्य वा कार्याङ्गस्य विभागीयकेन्द्रं भवति। मण्डलानि पुनश्च उपमण्डलेषु (तहशील् अथवा तालूक्) विभक्तानि भवन्ति । कदाचित् तानि उपविभागत्वेन निर्दिश्यन्ते । कदाचित् साक्षात् तालूक् अथवा तहशील् इत्येव कथ्यन्ते । भारते आहत्य ६४० मण्डलानि सन्ति । [1]
मण्डलकेन्द्रस्य स्थाने एतेषां कार्यालयाः अन्तर्भवन्ति।
सामान्यतः सर्वेषु मण्डलेषु मण्डलकेन्द्राणि भवन्ति । यद्यपि मुम्बयीनामकं नगरमण्डलम् अस्ति तथापि एतस्य निश्चितः केन्द्रकार्यालयः नास्ति । किन्तु अस्य नगरमण्डलस्य मण्डलाधिकारी (जिल्लाधिकारी) अस्ति ।