जैनधर्मः
From Wikipedia, the free encyclopedia
जैनधर्मः ( ( शृणु)/ˈdʒɛɪnəðərməhə/) (हिन्दी: जैनधर्म, आङ्ग्ल: Jainism) भारतस्य प्राचीनतमेषु धर्मेषु अन्यतमः वर्तते । यो जयति सः जिनः । अस्माकं देहे कर्मस्वरूपिणः बहवः शत्रवः भवन्ति । किन्तु तेषां शत्रूणां नाशकत्वेन जीवात्मा निवसति । सा जीवात्मा एव जिनः इति कथ्यते[1] । तस्य जिनस्य उपासकाः जैनाः इत्युच्यते । जैनधर्मे चतुर्विंशतितीर्थङ्कराः सन्ति ।
त्वरिततथ्यानि धर्मावलम्बीनां संख्या, प्रवर्तकः ...
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
पिदधातु
जैनधर्मस्य बहवः विषयाः सन्ति । यथा – जैनधर्मस्य तत्त्वानि, सिद्धान्ताः, आगमः, साहित्यानि च । ये जैनधर्मस्य पालनं कुर्वन्ति ते सर्वे महावीर-भगवतः अपत्यानि सन्ति[2] । किन्तु तेषां भाषादृष्ट्या, प्रान्तव्यवस्थादृष्ट्या, आचारदृष्ट्या च विभिन्नाः सम्प्रदायाः सन्ति । जैनानां बहूनि सङ्घटनानि अपि सन्ति ।