जैनागमः
From Wikipedia, the free encyclopedia
द्वादशाङ्गात्मकस्य जैनागमस्य स्वरूपम् एवं वर्तते - सर्वज्ञैः तीर्थङ्करैः समवसरणसभायां गणधरादीन् श्रेष्ठान् उद्दिश्य कृतं बोधनम् एव जैनागमः, जैनसिद्धान्तः, द्वादशाङ्गश्रुतः इत्यादिभिः नामभिः निर्दिश्यते । अयं जैनागमः सर्वज्ञैः तीर्थङ्करैः अनादिकालतः अनन्तकालपर्यन्तम् उपदिश्यमानमेव भवति इत्यतः अयं सादिः अनादिः इत्यपि कथ्यते । जैनागमः द्विविधं वर्तते - अङ्गबाह्यम् अङ्गप्रविष्टम् इति । अङ्गप्रविष्टम् द्वादशभिः अङ्गैः युक्तं वर्तते । ते - आचाराङ्ग, सूत्रकृताङ्ग, स्थानाङ्ग, समवायाङ्ग, व्याख्याप्रज्ञप्ति, ज्ञातृकथा, उपासकाध्ययन, अनुत्तरोपपादिक, अन्तकृद्दशाङ्ग, प्रश्नव्याकरण, विपाकसूत्र, दृष्टिवाददशाङ्गेति च । उपासकाध्ययनाङ्गे देवप्रतिष्ठा, पूजाक्रमः श्रावकाचारः, यत्याचारः च प्रतिपादिताः सन्ति । जैनागमे त्रयः आराध्यदेवताः - देवः, गुरुः, शास्त्रञ्च ।
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |