उत्तर-अमेरिकाखण्डः
महाद्वीपाः / From Wikipedia, the free encyclopedia
उत्तरामेरिका एकः महाद्वीपः वर्तते। सा पसिफिक्-अट्लाण्टिक्महासागरयोः मध्ये स्थिता। २४ २५८ ६६४ वर्गसहस्रमानानि विस्तारयुक्तः अयं विशालः खण्डः केनडा, वेस्टिण्डिस्, ग्रीन्लेण्ड्, मध्यामेरिका, मेक्सिकोप्रदेशैः युक्तः अस्ति । अस्मिन् विपरीतं वातावरणं, विविधसंस्कृतीनां मिश्रणम्, अत्यधिका सम्पत्तिः, अत्याधुनिकं तन्त्रज्ञानम्, अनेकाः विश्वसंस्थाश्च विद्यन्ते । तान्त्रिकज्ञानं, गणकयन्त्रज्ञाने अग्रेसरत्वम्, असङ्ख्यवस्तूनां निर्यातः, युद्धसामग्र्यः, गोधूमोत्पादनम् इत्यादीनाम् आधारेण युक्तः आढ्यखण्डः वर्तते अयम् । प्रबलशक्तिः इत्येतत् अन्वर्थनाम अस्य खण्डस्य अमेरिकासंयुक्तसंस्थानां विद्यते ।