![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/0/09/India_Madhya_Pradesh_locator_map.svg/langsa-640px-India_Madhya_Pradesh_locator_map.svg.png&w=640&q=50)
मध्यप्रदेशराज्यम्
From Wikipedia, the free encyclopedia
मध्यप्रदेशराज्यं (हिन्दी: मध्य प्रदेश, आङ्ग्ल: Madhya Pradesh) भारतस्य मध्येखण्डे विद्यमानं किञ्चन राज्यम् अस्ति । अस्य विस्तीर्णता ३,०८,२५२ च.कि.मी. परिमिता अस्ति । मध्यप्रदेशस्य राजधानी भोपाल इति नगरम् अस्ति । २००० तमवर्षस्य 'नवम्बर'मासस्य १ दिनाङ्के अस्मात् राज्यात् छत्तीसगढनामकः प्रदेशः पृथक् कृतः, नूतनराज्यत्वेन संस्थापितश्च । ततः पूर्वं मध्यप्रदेशराज्यं भारते बृहत्तममं राज्यम् आसीत् । इदानीं राजस्थानराज्यं बृहत्तमम् अस्ति । मध्यप्रदेशस्य केषाञ्चन क्षेत्राणाम् उल्लेखाः पुराणेषु अपि लभ्यन्ते । एकलक्षवर्षतः पूर्वं मध्यप्रदेशस्य रायसेनमण्डले 'भीम बेट्का' गुहायां मानवाः वसन्ति स्म इति अत्रत्यानां जनानां विश्वासः । अत्र विद्यमानानि गुहाचित्राणि ३०० वर्षेभ्यः पूर्वं चित्रितानि ।
त्वरिततथ्यानि मध्यप्रदेशराज्यम्, देशः ...
मध्यप्रदेशराज्यम् | |
---|---|
— राज्यम् — | |
![]() |
|
Coordinates: 22.42°उत्तरदिक् 72.54°पूर्वदिक् / २२.४२; ७२.५४ | |
देशः | ![]() |
निर्माणम् | १ 'नवम्बर' १९५६ |
राजधानी | भोपाल |
बृहत्तमनगरम् | Indore |
मण्डलानि | 52 |
सर्वकारः | |
• Type | Unicameral Legislature (230 seats) |
• Body | मध्यप्रदेशसर्वकारः |
• राज्यपालः | आनन्दी बेन पटेल |
• मुख्यमन्त्री | शिवराज सिंह चौहान |
• उच्चन्यायालयः | Madhya Pradesh High Court Jabalpur |
विस्तीर्णता | |
• राज्यम् | ३०८,२५२ km२ |
क्षेत्रविस्तारः | 2nd |
जनसङ्ख्या (2011) | |
• राज्यम् | ७२,५९७,५६५ |
• रैङ्क् | षष्ठ |
• नगरम् | २०,०५९,६६६ |
• ग्रामीणम् | ५२,५३७,८९९ |
मानसमयः (UTC+05:30) | |
पिन् | 45xxxx-48xxxx |
अन्ताराष्ट्रीयकूटसङ्ख्या (ISD) | 091-7xxx |
ऐ एस् ओ ३१६६ कोड् | IN-MP |
मानवविकाश-साङ्ख्यिकी (HDI) | 0.488 (medium) |
HDI रैङ्क् | 26th (2005) |
साक्षरता | 70.60% (2011) |
लिङ्गानुपातः | 930 (2011) |
अधिकृता भाषा | हिन्दीभाषा |
पिदधातु