प्रजातन्त्रम्
From Wikipedia, the free encyclopedia
प्रजातन्त्रम् ( ( शृणु) /ˈprədʒɑːtɑːntrəm/) (आङ्ग्ल: Democracy, हिन्दी: प्रजातन्त्र, लोकतन्त्र) इत्युक्ते प्रजायाः, प्रजया, प्रजायै च शासनम् [1] । प्रजातन्त्रशासने वस्तुतः प्रजा एव राजा भवति, अतः प्रजातन्त्रम् इत्युच्यते । अस्य प्रजातन्त्रस्य लोकतन्त्रं, स्वराज्यं, जनतन्त्रं, सङ्घः इत्यादीनि नामान्तराणि सन्ति । प्रजया निर्वाचिताः प्रतिनिधयः प्रजातन्त्रशासने प्रजाप्रतिनिधित्वेन कार्यं कुर्वन्ति [1] । तत्र प्रजा स्वमताधिकारेण लोकसभा-राज्यसभाप्रभृतिसंसदां निर्माणं करोति । अखिलमपि च शासन-निर्वहणयन्त्रं स्वयमेव रचयति । प्रजा एव प्रत्यक्षाप्रत्यक्षरीत्या निर्वाचनपद्धत्या, प्रातिनिधिसरण्या च शासनचक्रं संसृजति । प्रजा सर्वाङ्गसुन्दरशासनस्य, शासनविधानस्य च निर्माणं करोति ।