पूर्वजम्बुद्वीपः
जम्बुद्वीपस्य उपप्रदेशः / From Wikipedia, the free encyclopedia
पूर्वजम्बुद्वीपः (हिन्दी: पूर्वी एशिया, आङ्ग्ल: East Asia) जम्बुद्वीपस्य पूर्वप्रदेशः अस्ति, यः भौगोलिक-जातीय-सांस्कृतिक-उभयपदेषु परिभाषितः अस्ति । पूर्वजम्बुद्वीपस्य आधुनिकराज्येषु चीन, जापान, मङ्गोलिया, उत्तरकोरिया, दक्षिणकोरिया, तैवान च सन्ति । चीन, उत्तरकोरिया, दक्षिणकोरिया, तैवान च सर्वेऽपि न्यूनातिन्यूनम् एकेन अन्येन पूर्वजम्बुद्वीपराज्येन अस्वीकृताः सन्ति, यतो हि अस्मिन् क्षेत्रे प्रचलति गम्भीरराजनैतिकतनावः, विशेषतः कोरियायाः विभाजनं, तैवानस्य राजनैतिकस्थितिः च । चीनदेशस्य दक्षिणदिशि स्थितौ लघुतटीय-अर्धनिर्भरप्रदेशौ हाङ्ग् काङ्ग्-मकौ-क्षेत्रे आधिकारिकतया अत्यन्तं स्वायत्तौ स्तः किन्तु चीनीय-सार्वभौमत्वस्य अधीनम् अस्ति । जापान, तैवान, दक्षिणकोरिया, मुख्यभूमिचीन, हाङ्ग् काङ्ग्, मकौ च विश्वस्य बृहत्तमासु समृद्धतमासु अर्थव्यवस्थासु अन्यतमाः सन्ति । पूर्वजम्बुद्वीपस्य उत्तरे सैबेरिया रूसीसुदूरपूर्वः च, दक्षिणे आग्नेयजम्बुद्वीपः, दक्षिणपश्चिमे दक्षिणजम्बुद्वीपः, पश्चिमे मध्यजम्बुद्वीपः च अस्ति । पूर्वदिशि प्रशान्तमहासागरः दक्षिणपूर्वदिशि मैक्रोनीशिया (प्रशान्तमहासागरद्वीपसमूहः, ओशिनियायाः भागत्वेन वर्गीकृतः) च सन्ति ।
East Asia (orthographic projection).svg | |
विस्तीर्णम् | १,१८,४०,००० किमी२ (४५,७०,००० वर्ग मील) (तृतीया) |
---|---|
जनसङ्ख्या | १६० कोटिः (1.6 बिलियन्) (२०२०; चतुर्थी) |
जनसङ्ख्यासान्द्रता | १४१.९/किमी२ (५४.८/वर्ग मील) |
राष्ट्रीयता | पूर्वजम्बुद्वीपीय |
देशाः |
६
चीन
जापान फलकम्:Country data Mangolia मङ्गोलिया फलकम्:Country data North Korea उत्तरकोरिया दक्षिणकोरिया तैवान |
अवलम्बिताः |
स्वायत्ताश्रयौ
|
भाषाः | |
समयवलयानि | स॰सा॰स॰+७, स॰सा॰स॰+८ & स॰सा॰स॰+९ |
बृहत्तमनगराः |
नगरीयक्षेत्राणां सूची
बीजिङ्ग्
बुसान् फलकम्:Country data Hong Kong हाङ्ग् काङ्ग् फलकम्:Country data Macau मकौ ओसाका फलकम्:Country data North Korea प्योङ्गयाङ्ग् सियोल् शङ्घाई शेञ्झेन् टोक्यो योकोहामा फलकम्:Country data Mangolia उलान्बातर् तैपे |