![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f6/Pacific_Ocean_-_en.png/640px-Pacific_Ocean_-_en.png&w=640&q=50)
प्रशान्तमहासागरः
सागरः / From Wikipedia, the free encyclopedia
भूमेः सागरविभागे प्रशान्तसागरः बृहत्तमः । अयं सागरः उत्तरे उत्तरध्रुवीयमहासागरतः दक्षिणे दक्षिणध्रुवीयमहासागरपर्यन्तं विस्तृतः वर्तते । पश्चिमदिशि एशिया-आस्ट्रेलियाखण्डाभ्यां पूर्वदिशि अमेरिकाखण्डेन च आवृतः वर्तते ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f6/Pacific_Ocean_-_en.png/320px-Pacific_Ocean_-_en.png)
१६५.२५ मिलियन्-चतुरस्रकिलोमीटर्मितेन (६३.८ मिलियन्-चतुरस्रमैल्स्-मितेन) विस्तारेण युतः अयं सागरः भूमेः ४६% जलप्रदेशम् आवृणोति, यश्च भागः समग्रस्य भूमेः भूभागस्य अपेक्षया बृहत्तमः विद्यते । [1] भूमध्यरेखा एतं सागरं 'उत्तरप्रशान्तसागरः' 'दक्षिणप्रशान्तसागरः' इति द्विधा विभजति । किन्तु गैलापागोस्-गिल्बर्ट्-द्वीपसमूहाः तु समग्रतया दक्षिणप्रशान्ते एव अन्तर्भवन्ति इति अभिप्रायः ।[2] ईशान्यप्रशान्तसागरे विद्यमानः 'दि मरियाना खात'प्रदेशः जगतः गभीरतमबिन्दुः विद्यते । [3]