![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c9/India_Goa_locator_map.svg/langsa-640px-India_Goa_locator_map.svg.png&w=640&q=50)
गोवाराज्यम्
From Wikipedia, the free encyclopedia
गोवाराज्यं ( ( शृणु) /ˈɡoʊvɑːrɑːdʒjəm/) (हिन्दी: गोवा, आङ्ग्ल: Goa) भारते स्थितं किञ्चन लघुराज्यम् अस्ति । गोवाराज्यं भारतस्य पश्चिमे अरबीसमुद्रस्य तटे स्थितम् अस्ति । पश्चिमसमुद्रतटवर्तिराज्यस्यास्य उत्तरदिशि महाराष्ट्रराज्यं, दक्षिणदिशि कर्णाटकराज्यं, पूर्वदिशि पश्चिमघाटः, पश्चिमदिशि अरबीसमुद्रश्चास्ति । पणजी, वास्को द गामा, मडगांव चास्य राज्यस्य प्रमुखनगराणि सन्ति । पणजी-नगरं राज्यस्य राजधानी अस्ति । वास्को द गामा राज्यस्यास्य बृहत्तमं नगरमस्ति । प्राकृतिकसौन्दर्येण परिपूर्णम् एतत् राज्यं बहुभ्यः वीक्षणीयेभ्यः समुद्रतटेभ्यः सुप्रसिद्धमस्ति ।
गोवाराज्यम् | |
---|---|
— राज्यम् — | |
![]() |
|
![]() |
|
Coordinates (पणजी): 15.463°उत्तरदिक् 73.818°पूर्वदिक् / १५.४६३; ७३.८१८ | |
राष्ट्रम् | ![]() |
स्थापना | ३० मे १९८७ |
राजधानी | पणजी |
बृहत्तमं नगरम् | वास्को-द-गामा |
मण्डलानि | 2 |
विस्तीर्णता | |
• संहतिः | ३७०२ km२ |
क्षेत्रविस्तारः | अष्टाविंशतितमः |
जनसङ्ख्या (२०११) | |
• संहतिः | १४,५८,५४५ |
• रैङ्क् | पञ्चविंशतितमः |
भारतीयसामान्यकालमानम् (UTC+०५:३०) | |
ऐ एस् ओ ३१६६ कोड् | IN-GA |
HDI rank | तृतीयः (२००५) |
साक्षरतापरिमाणम् | ८७% (तृतीयः) |
अधिकृतभाषा | कोङ्कणी |
जालस्थानम् | www.goa.gov.in |
^* कोङ्कणीभाषा राजभाषा अस्ति । परन्तु मराठीभाषा अपि व्यावहारिकभाषात्वेन, राजभाषात्वेन च उपयोगं कुर्वन्ति जनाः । [1][2][3] |
गोवाराज्यस्य विस्तीर्णं ३७०२ च.कि.मी अस्ति । पणजी इति नगरमस्य राजधानी अस्ति । वास्को, फोण्डा , मडगांव, म्हापसा च राज्यस्यास्य मुख्यनगराणि सन्ति । माण्डवीनदीतीरे पणजी इत्येतत् नगरमस्ति । गोवाराज्ये सागरतीरं १०५ कि.मी दीर्घमस्ति । २७ सागरतीरप्रदेशाः सुप्रसिद्धाः सन्ति । उत्तरगोवा, दक्षिणगोवा इति द्विधा इदं राज्यं विभाजितम् अस्ति ।