उत्तरप्रदेशराज्यम्
From Wikipedia, the free encyclopedia
उत्तरप्रदेश: भारतस्य उत्तरभागे स्थितं किञ्चन राज्यम् । प्रायः १९.० कोटिः जनसङ्ख्या विद्यते अस्मिन् राज्ये । भारतदेशेषु विद्यमानेषु राज्येषु अस्मिन्नेव राज्ये अधिकाः जनाः सन्ति । उत्तरप्रदेशे सुफलाभूमिः अधिकतया दृश्यते । उत्तरप्रदेशस्य उत्तर-पश्चिमे हिमाचलप्रदेशः अस्ति । पश्चिमे हरियाणा, देहली, राजस्थानम् च भवन्ति । दक्षिणे मध्यप्रदेशः, छत्तीसगढ, झारखण्डश्च सन्ति । दक्षिण-पूर्वे तथा पूर्वे बिहारराज्यम् अस्ति । उत्तरप्रदेशस्य राजधानी लखनौ अस्ति । अस्य राज्यस्य उच्चन्यायालयः अलहाबाद् नगरे अस्ति । वाराणस्यादि क्षेत्राणाम्, आग्रादी ऐतिहासिकस्थलानाम् आश्रितं राज्यं भवति एतत् । कानपुरं, देवरियां, गोरखपुरं, मेरठ, आग्रा, अलिगढ, बरेली, प्रयागः, गाजियाबाद्,नोयडाच अत्रत्य बृहत् नगराणि भवन्ति । हैन्दवानां पवित्रतमक्षेत्राणि अस्मिन् राज्ये राराजन्ते ।
उत्तरप्रदेशराज्यम् उत्तर प्रदेश वैविध्यमयः प्रदेशः | ||
---|---|---|
| ||
भारतभूपटे उत्तरप्रदेशः | ||
उत्तरप्रदेशस्य भूपटम् | ||
देशः | भारतम् | |
प्रदेशः | अवध, बघेलखण्डं, ब्रज, दोआब, बुन्देलखण्डं, पूर्वाञ्चलः, रोहिलखण्डं, भारत-गङ्गाप्रदेशः | |
स्थापनम् | आधुनिकम्: १८०५ | |
राजधानी | लखनौ | |
Government | ||
• Body | भारतसर्वकारः, उत्तरप्रदेशसर्वकारः | |
• राज्यपालः | बन्वारि लाल् जोशी | |
• उत्तरप्रदेशमुख्यमन्त्री | योगी आदित्यनाथः | |
• १४ लोकसभाक्षेत्राणि | ८० | |
• उच्चन्यायालयः | इलाहाबाद उच्चन्यायालयः | |
Area | ||
• Total | २४३२८६ km२ | |
Area rank | पञ्चमम् | |
Population (२०११) | ||
• Total | १९९,५८१,४७७ | |
• Rank | प्रथमम् | |
• Density | ८२०/km२ | |
भाषाः | ||
• आधिकारिक | हिन्दी | |
• प्रादेशिक |
अवधी कन्नौजी ब्रज बघेली बुन्देली भोजपुरी | |
Time zone | UTC+०५:३० (भारतीयकालगणना) | |
Vehicle registration | उ प्र ०१-XX | |
साक्षरता |
६९.७२% ७९.२४% (पुरुषाः) ५९.२६% (महिलाः) | |
Website | upgov.nic.in |