नागौर
From Wikipedia, the free encyclopedia
नागौर ( ( शृणु) /ˈnɑːɡɔːrə/) (हिन्दी: नागौर, आङ्ग्ल: Nagaur) राजस्थानराज्ये स्थितस्य नागौरमण्डलस्य केन्द्रम् अस्ति । नागौर-नगरस्य स्थापना नागवंशिभिः कृता इति तस्य नाम्ना ज्ञायते [1] । एतस्य नगरस्य स्थापना द्वितीयायाम् उत तृतीयायां शताब्द्याम् अभवत् । यतो हि कुषाण-जनानां विरुद्धं नागवंशिनः आहताः अभूवन् । ततः वाकाटक-वंशीयाः, गुप्तवंशीयाः च सम्राजः तेषाम् उन्मूलनम् अकुर्वन् । अहिच्छत्रपुरं, नागपुरं, नागपट्टनम्, अहिपुरं, भुजङ्गनगरं च नागौर-नगरस्य नामान्तराणि ।
नागौर Nagaur नागण देस | |
---|---|
नगरम् | |
| |
Nickname(s): नागिणो | |
Coordinates: 27.2°उत्तरदिक् 73.73°पूर्वदिक् / २७.२; ७३.७३ | |
देश) |
![]() |
राज्यम् | राजस्थानराज्यम् |
मण्डलम् | नागौर |
Government | |
• Type | लोकतन्त्रम् |
• Body | मण्डलाध्यक्षः |
• सांसदः | सी आर् चौधरी |
• collector | dr.veena pradhan |
Area | |
• Total | १७,७१८ km२ |
Elevation | ३०२ m |
Population (2011) | |
• Total | ३३,४०,२३४ |
• Density | १९०/km२ |
भाषाः | |
• आधिकारिक्यः | हिन्दी |
• स्थानिकाः | मारवाडी |
Time zone | UTC+5:30 (IST) |
Vehicle registration | RJ-21 |
Website | http://nagaur.rajasthan.gov.in/ |
नागौर-नगरस्य सुन्दरतायाः वर्णनं कुर्वन् मोहम्मद हलीम सिद्दीकी इत्येषः अलिखत्, प्रत्येकेन दृष्टिकोणेन नागौर-नगरम् अत्यन्तं सुन्दरं नगरम् आसीत् । नागौर-नगरात् २ माइल दक्षिणपूर्वदिशः सौन्दर्यं नागौर-नगरस्य मुख्याकर्षणम् आसीत् । एतत् नगरम् परितः काश्चित् दीर्घा भित्तिका आसीत् । तस्याः भित्तिकायाः दैर्घ्यं ४ माइल् आसीत् । तस्याः भित्तिकायाः औन्नत्यं प्रदेशानुसारम् आसीत् । कुत्रचित् सा भित्तिका २.५ फीट्, अन्यत्र ५ फीट्, अपरत्र १७ फीट् च उन्नता आसीत् । नागौर-नगरस्य षट्द्वाराणि आसन् । तेषु द्वारेषु त्रीणि दक्षिणदिशायाम्, चतुर्थद्वारम् उत्तरदिशायां, पञ्चमद्वारं पश्चिमदिशायां, षष्ठमद्वारं पूर्वदिशायां च आसन् । एतानि षड्द्वाराणि क्रमेण अजयमेरुद्वारं, जोधपुरद्वारं, नखासद्वारं, भायाद्वारं, देहलीद्वारं च प्रसिद्धानि । नागौर-नगरे अनेके देवनागरीलिप्या, फारसी-लिप्या च लिखिताः शिलालेखाः प्राप्यन्ते । नागौर-नगरात् अनेकाः देवमूर्तयः प्राप्ताः । ताः मूर्तयः नागौर-नगरस्य मन्दिरेभ्यः, गृहेभ्यः, समाधिस्थलेभ्यः, यवनप्रार्थनागृहेभ्यः च प्राप्ताः ।