धर्मनाथः
From Wikipedia, the free encyclopedia
धर्मनाथः ( ( शृणु) /ˈðərmənɑːθəhə/) (हिन्दी: धर्मनाथ,आङ्ग्ल: Dharmnath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु पञ्चदशः तीर्थङ्करः अस्ति । भगवतः धर्मनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं वज्रम् चास्ति ।
त्वरिततथ्यानि धर्मनाथः, विवरणम् ...
धर्मनाथः | |
---|---|
पञ्चदशः जैनतीर्थङ्करः | |
![]() धर्मनाथस्य प्रतिमा | |
विवरणम् | |
ऐतिहासिककालः | ३ × १०२१० वर्षाणि पूर्वम् |
परिवारः | |
पिता | भानुः |
माता | सुव्रता |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | रत्नपुर |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | सुवर्णः |
चिन्हम् | वज्रः |
औन्नत्यम् | ४५ धनुर्मात्रात्मकम् (१३५ मीटर्) |
आयुः | २५,००,००० वर्षाणि |
शासकदेवः | |
यक्षः | किन्नरः |
यक्षिणी | कन्दर्पा |
पिदधातु
त्वरिततथ्यानि धर्मावलम्बीनां संख्या, प्रवर्तकः ...
![]() जैनध्वजः | |
![]() जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
पिदधातु
कौमारावस्थायां धर्मनाथस्य शरीरस्य औन्नत्यं पञ्चचत्वारिंशत् (४५) धनुर्मात्रात्मकम् आसीत्[1] । भगवतः धार्मिकपरिवारे “किन्नर” इत्याख्यः यक्षः, “कन्दर्पा” इत्याख्या शासनदेवी च आसीत् । भगवान् धर्मनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।