From Wikipedia, the free encyclopedia
ऋषभदेवः ( शृणु) (हिन्दी: ऋषभदेव) जैनधर्मस्य चतुर्विंशत्यां तीर्थङ्करेषु प्रथमः तीर्थङ्करः आसीत् [1] सम्प्रदाय:। तत्संप्रदायानुसारेण सः आदिनाथः, वृषभनाथः इति नाम्ना अपि ज्ञायते , सः योगी आसीत् , तस्य च पुत्रस्य भरतस्य नामानुसारम् एव भारतदेशः इति नाम प्रदत्तम् ।
ऋषभदेवः | |
---|---|
प्रथमः जैनतीर्थङ्करः | |
ऋषभनाथस्य प्रतिमा, लॉस एंजिल्स् , काउंटी कला संग्रहालय | |
विवरणम् | |
अन्यनाम | आदिनाथः, ऋषभनाथः, वृषभनाथः |
परिवारः | |
पिता | नाभिराय |
माता | मरुदेवी |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | अयोध्या |
निर्वाणम् | कैलाशपर्वतः |
लक्षणम् | |
वर्णः | सुवर्णः |
चिन्हम् | वृषभः |
औन्नत्यम् | ५०० धनुर्मात्रात्मकम् (१५०० मीटर्) |
आयु: | ८,४००,००० पूर्व वर्षाणि (५९२.७०४ × १०१८ वर्ष) |
शासकदेवः | |
यक्षः | गौमुखः |
यक्षिणी | चक्रेश्वरी |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
ऋषभदेवस्य जन्म अयोध्या-नगरे चैत्र-मासस्य कृष्णपक्षस्य नवम्यां तिथौ अभवत् [2]। तस्मिन् दिने उत्तराषाढा-नक्षत्रमासीत् ।
मरूदेवी तस्य माता, पिता च नाभिराय आसीत् । यदा मरुदेवी गर्भवती आसीत्, तदा मरूदेव्या तस्यां रात्रौ चतुर्दश स्वप्नाः दृष्टाः । ते च – १ वृषभः, २ गजः, ३ सिंहः, ४ लक्ष्मीः, ५ पुष्पमाला, ६ चन्द्रः, ७ सूर्यः, ८ महेन्द्रः ध्वजः, ९ कुम्भः, १० पद्मसरोवरः, ११ क्षीरसमुद्रः, १२ देवविमानम्, १३ रत्नराशिः, १४ निर्धूमाग्निः च । स्वप्नशास्त्रानुसारम् एते स्वप्नाः मङ्गलाः भवन्ति ।
मरुदेवी चतुर्दशस्वप्नान् दृष्ट्वा प्रसन्ना जाता । मरुदेव्या स्वप्नविषयिणी वार्ता नाभिकुलकराय उक्ता । नाभिकुलकरः अपि आश्चर्यचकितः जातः । मरुदेव्या स्वप्नानां वर्णनं कृतम् । तच्छ्रुत्वा नाभिकरः अतीव प्रसन्नः अभवत् । सः ज्ञातवान् आसीत् यत् – मरुदेव्याः कुक्षौ कश्चन श्रेष्ठः पुत्रः अस्ति ।
गर्भकालस्य समाप्त्यनन्तरं मरुदेवी एकां पुत्रीं, एकं पुत्रं च अजीजनत् । सः पुत्रः ऋषभदेवः आसीत् । भगवतः जन्मना समग्रे विश्वे अज्ञातशान्त्याः वातावरणं जातम् । इन्द्रेण सह बहवः देवाः भगवतः ऋषभदेवस्य जन्मोत्सवम् आचरन् । तावदेव जन्मोत्सवस्य प्रथा आरब्धा ।
भगवतः ऋषभदेवस्य नामकरणार्थं बहवः यौगलिकाः एकत्रिताः अभवन् । भगवतः नामकरणप्रसङ्गे बहवः जनाः उपस्थिताः आसन् । तस्य युगस्य इयं प्रथमा घटना आसीत्, यस्याम् एतावन्तः जनाः उपस्थिताः अभवन् ।
तस्मिन् समये नामकरणस्य प्रश्नः आसीत् । नाभिकुलकरेण उक्तं यत् – मरुदेव्या चतुर्दश स्वप्नाः दृष्टाः आसन् । तेषु स्वप्नेषु प्रथमः स्वप्नः वृषभस्य आसीत् । शिशोः वक्षस्थले अपि वृषभस्य एव चित्रम् अस्ति । अतः नाभिकुलकरः "वृषभकुमार" इति नामकरणं कर्तुम् इच्छति स्म। तत्र स्थितैः सर्वैः जनैः अपि समर्थनं कृतम् आसीत् । अन्ते पुत्रस्य वृषभकुमारः, पुत्र्याः सुनन्दा च इति नामकरणं कृतम् ।
दिगम्बर-आम्नाये भिन्नं मतं वर्तते । महापुराणानुसारं जन्मनः एकादशदिवसानन्तरम् इन्द्रः स्वयम् आगत्य नामकरणिविधिं कृतवान् । इन्द्रं दृष्ट्वा तत्र बहवः जनाः गतवन्तः । इन्द्रेण उक्तं यत् – “अयं बालकः भविष्यत्काले धर्मस्य रक्षणं करिष्यति । अतः युग्लिकैः वृषभकुमारः इति नाम प्रदत्तम् ।
वैदिकग्रन्थे भागवते रचनाकारेण लिखितमस्ति यत् – बालकस्य शरीरस्य सौन्दर्यं, तेजस्वितां च दृष्ट्वा नाभिराज्ञा ऋषभदेव इति नाम प्रदत्तम् । ऋषभदेवः जैनधर्मस्य आद्यप्रवर्तकः आसीत् । अतः जैनधर्मस्य इतिहासकारैः आदिनाथः इति नाम प्रदत्तम् ।
भगवतः प्रथमं नाम वृषभदेवः इति आसीत् । किन्तु उच्चारणस्य सरलतायै वृषभात् ऋषभः अभवत् ।
कल्पसूत्रस्य टीकायां भगवतः पञ्च नामानि प्राप्यन्ते । १ वृषभः, २ प्रथम राजा, ३ प्रथम भिक्षाचरः, ४ प्रथम जिनः, ५ प्रथमः तीर्थङ्करः च । इतोऽपि आदिनाथः, आदिमबाबा इत्यादीनि नामानि अपि सम्प्राप्यन्ते ।
यदा भगवतः ऋषभदेवस्य जन्म अभवत्, तदा कोऽपि वंशः नासीत् । यदा सः एकवर्षीयः आसीत्, तदा सः स्वस्य पितुः क्रोडे क्रीडन् आसीत् । तस्मिन् समये इन्द्रः विविधाः सामग्रीः च नीत्वा ऋषभदेवस्य समीपं गतः ।
नाभिकुलकरेण एतावतः वस्तूनि दृष्ट्वा ऋषभदेवः उक्तः यत् – “भवान् यत्किमपि इच्छति चेत् स्वीकरोतु” । तदा ऋषभदेवेन सर्वप्रथमम् इक्षुयष्टिः स्वीकृता । अनन्तरं सः इक्षुयष्टिं खादितुं प्रयासः कुर्वन् आसीत् ।
अनेन प्रसङ्गेन इन्द्रः घोषणां चकार यत् – ऋषभदेवाय इक्षुः रोचते । अतः भविष्यत्काले अपि अस्य वंशस्य नाम “इक्ष्वाकुः” भविष्यति । तावदेव वंशपरम्परा चलन्ती अस्ति ।
यदा ऋषभदेवः तारुण्यावस्थां प्राविशत्, तदा तस्य विवाहः कन्याद्वयेन सह कारितः आसीत् । एका कन्या सहजन्मा, अपरा च अनाथा आसीत् ।
इयं विवाहपरम्परा जनेभ्यः नूतना आसीत् । यतः जनाः विवाहपरम्परया अपरिचिताः आसन् । ते न जानन्ति स्म यत् विवाहस्य का उपयोगिता, महत्त्वं च ?
तदा विवाहप्रथा एव नासीत् । अन्येभ्यः विकारभावना नासीत् । ये सहोदराः भवन्ति स्म, ते परस्परम् अधिकारं मन्यन्ते स्म । ऋषभदेवस्य प्रथमा पत्नी सुनन्दा आसीत् । सा सहोदरी आसीत् । किन्तु अपरा तु अनाथा आसीत् ।
अपरायाः पत्न्याः पितरौ दिवङगतौ आस्ताम् । तस्याः सहोदरः अपि मृत्युं प्राप्तः । अतः सा एकाकिनीं एव आसीत् । एकदा सा वने विचरणं कुर्वती आसीत् । मरुदेवी अपि तस्मिन्समये अटनार्थं वनं गतवती । तत्र तां बालिकाम् एकाकी दृष्ट्वा मरुदेवी पृष्टवती - “कुत्रास्ति ते सहभागी” ? तया बालिकया मरुदेव्यै स्वस्याः सम्पूर्णः वृत्तान्तः कथितः ।
तस्याः बालिकायाः जीवनवृत्तान्तं श्रुत्वा मरुदेव्या विचारितम् यत् – “इयम् एकाकिनी कथं जीवनं यापयिष्यति ? “गृहे एषा ऋषभेण सह क्रीडिष्यति, अनन्तरम् ऋषभस्य पत्नी भविष्यति” इति विचार्य मरुदेवी तां बालिकां स्वगृहम् आनितवती । अनन्तरं सा कन्या सुमङ्गला इति नाम्ना ख्याता अभवत् । सा एव ऋषभदेवस्य अपरा द्वितीया वा पत्नी जाता ।
यौगलिककाले मर्यादिता पुत्रोत्पत्तिः भवति स्म । प्रत्येकस्य युग्मस्य एकवारम् एव सन्तत्योत्पत्तिः भवति स्म । सा उत्पत्तिः अपि युग्मरूपेण एव विद्यते स्म । एकः पुत्रः, अपरा पुत्री च । किन्तु ऋषभदेवस्य गृहे इयं परम्परा भग्ना जाता ।
सुनन्दा एकं युग्मम् अजीजनत् । बाहुबली, सुन्दरी च । किन्तु सुमङ्गला पञ्चाशत् युग्मानि अजीजनत् । तेषु प्रथमं युग्मं भरत, ब्राह्मी च आसीत् । अनन्तरम् अन्येषु युग्मेषु सर्वे पुत्राः एव आसन् । ऋषभस्य आहत्य द्वे पुत्र्यौ, शतं पुत्राः च आसन् ।
|
|
|
|
|
एते शतं पुत्राः समयान्तरे अन्याभिः कन्याभिः सह विवाहम् अकुर्वन् । तेन कारणेन जनसङ्ख्यायां वृद्धिः जाता । दिगम्बर-परम्परायाः आचार्यः जिनसेनः मन्यते यत् – “भगवतः ऋषभदेवस्य एकोत्तरशतं पुत्राः आसन्” इति । वृषभसेन अपि एकः अपरः पुत्रः आसीत् ।
यौगलिकानां संख्यायाः आधिक्येन राज्ये सर्वत्र अभावः समुद्भवत् । अतः सर्वे यौगलिकाः अभावेन त्रस्ताः जाताः । यौगलिकाः नाभिकुलकरं प्रति गत्वा अभावस्य समाधानं कारयितुम् इच्छन्ति स्म । राज्यस्य व्यवस्था अपि शिथिला जाता । खाद्यपदार्थानाम् अभावस्य आधिक्यम् आसीत् । नाभिकुलकरः अपि समाधानं कर्तुम् असमर्थः आसीत् । सः अपि स्वस्य कर्त्तव्यात् मुक्तिम् इच्छति स्म ।
एकस्मिन् दिवसे कानिचन युग्मानि ऋषभकुमारेण सह वार्तालापं कुर्वन्ति आसन् । तदैव खाद्यपेयपदार्थाणाम् अभावविषयिणी चर्चा जाता । सर्वे जनाः दुःखिताः आसन् । ते इमां समस्यां निवारयितुम् ऋषभदेवं प्रति उचुः ।
तदनन्तरम् ऋषभेण उक्तं यत् – “राज्ये कोऽपि राजा भवेत् इति आवश्यकम् अस्ति । राजा एव समस्यायाः समाधानं कर्तुं सक्षमः भवति । यतः सः शासनं कर्तुं जानाति । राज्यस्य व्यवस्थानां परिवर्तनम् आवश्यकम् अस्ति” । अनुशासनेन एव समस्यायाः समाधानं भविष्यति ।
युगलकैः उक्तं यत् – “राजा किं भवति ? इति वयं न जानीमः" । अनन्तरम् ऋषभेण राज्ञः कर्त्तव्यानि कथितानि । ऋषभः नाभिकुलकराय निवेदनं कर्तुम् उक्तवान् ।
सर्वे यौगलिकाः नाभिकुलकरं प्रति गतवन्तः । नाभिकुलकरः प्रागेव चिन्तितः आसीत् । अतः नाभिकुलकरेण स्वस्य पदं त्यक्तम् । तेन उक्तं यत् – “भोजनाभावस्य निवारणं कर्तुम् असमर्थोऽस्मि । भवन्तः ऋषभं कथयन्तु । सः एव राजा भविष्यति । सः एव समस्यानां निवारणं करिष्यति” ।
सर्वे यौगलिकाः स्वस्य मत्यनुसारम् ऋषभदेवस्य राज्याभिषेकस्य सज्जतां कुर्वन्तः आसन् । सर्वे विविधप्रकारकैः पुष्पैः ऋषभदेवस्य शरीरम् अलङ्कृतवन्तः । अनन्तरम् तैः ऋषभस्य राज्याभिषेकः कृतः ।
एतत् सर्वं दृश्यम् इन्द्रः स्वर्गलोके एव पश्यन् आसीत् । सर्वं दृष्ट्वा इन्द्रः प्रसन्नः अभवत् । सः त्वरितमेव मृत्युलोकं प्रापत् । जनानां विनयं दृष्ट्वा तस्य स्थलस्य नाम विनीता इति प्रदत्तम् । तावदेव सा नगरी विनीता-नगरी इति ख्याता ।
सर्वप्रथमम् ऋषभदेवेन खाद्यसमस्यायाः विचारः कृतः आसीत् । यतः भोजनं प्राप्स्यति, चेत् सर्वे अनुशासिताः भविष्यन्ति । अन्याः समस्याः अपि खाद्यसमस्यया सह संलग्नाः आसन् ।
समयः परिवर्तितः जातः । अतः सर्वप्रथमं स्वस्य जीवनशैल्याः परिवर्तनस्य आवश्यकता वर्तते स्म । पुरा सर्वे वृक्षेभ्यः फलानि प्राप्यन्ते स्म । किन्तु समयपरिवर्तनेन वृक्षाः अल्पानि फलानि ददति स्म । अतः ऋषभदेवेन सर्वेभ्यः कृषिकर्मणः शिक्षणं प्रदत्तम् आसीत् ।
कृषेः अन्नोत्पादनं कुर्युः इति ऋषभः सर्वान् जनान् आदिदेश । “अस्माभिः क्षेत्रे (Farm) बीजारोपणं कृत्वा अन्नोत्पादनं करणीयम् । तेनैव वयं सुखं प्राप्स्यामः” इति ऋषभेण उक्तम् । तदनन्तरं सर्वे जनाः परिश्रमं कृतवन्तः । अन्ते खाद्यसमस्यायाः निवारणम् अभवत् । इतः परम् अन्यासां समस्यानामपि शनैः शनैः समाधानं कृतम् । कृषौ बह्व्यः समस्याः उद्भूताः । किन्तु ऋषभेण सर्वासां समस्यानां निवारणं कृत्वा जनानां प्रोत्साहनं कृतम् ।
तस्मिन् काले केनापि अग्निः न दृष्टः आसीत् । एकदा कैश्चित् जनैः वने अग्निः दृष्टः । ते भयभीताः सन्तः ऋषभस्य समीपं गतवन्तः । अनन्तरम् ऋषभेण सर्वेभ्यः जनेभ्यः अग्निविषयकं ज्ञानं प्रदत्तम् । तत्पश्चात् अग्नेः पाकः करणीयः इत्यपि पाठितम् । यतः जनाः कृषेः उद्भूतानि अपक्वानि अन्नानि एव खादन्ति स्म । तेन पीडा भवति स्म । अतः सर्वे अग्निना भोजनं पचन्ति स्म ।
ऋषभेण जनानां रक्षणार्थम् एकः वर्गः निर्मापितः । तेन तस्य वर्गस्य सदस्येभ्यः खड्गचालनम् इत्यादि शस्त्रविद्यायाः शिक्षणम् अपि प्रदत्तम् आसीत् । कथं ? कदा ? कस्योपरि ? च तेषां शस्त्राणां प्रयोगः करणीयः इति अपि ऋषभेण पाठितम् । ते जनाः केवलं रक्षणार्थम् आसन् । ते एव क्षत्रियाः इति कथ्यन्ते ।
ऋषभेण एकः अन्यः वर्गः निर्मापितः । तस्मिन् वर्गे जनाः शिल्पकला, कृषिकला इत्यादीः कलाः पठन्ति स्म । सः उत्पादनस्य शिक्षणम् अददात् । अपरं तेन उत्पादितवस्तूनां विनिमयः कथं करणीयः ? इत्यपि पाठितम् । वस्तूनां परस्परं विनिमयः भवति स्म ।
विनिमयस्य संख्याने काठिन्यं भवति स्म । यतः जनाः शिक्षिताः नासन् । अतः ऋषभेण तस्य वर्गस्य जनाः पाठिताः । उत्पादकतः उपभोक्तृपर्यन्तं वस्तूनां विनिमये पारिश्रमिकं लाभं प्राप्नोति स्म । सः एव व्यापारः कथ्यते । ये व्यापारं कुर्वन्ति स्म ते व्यापारिकाः कथ्यन्ते स्म । ते व्यापारिकाः वैश्याः इति कथ्यन्ते ।
ऋषभदेवेन जनेभ्यः कृषेः, शस्त्रास्त्राणां, व्यापारस्य च शिक्षणं प्रदत्तम् आसीत् । तेन जनाः कार्यरताः अभवन् । किन्तु ये जनाः कृष्यादि कार्येषु काठिन्यम् अनुभवन्ति स्म, ते सेवाकार्ये स्वच्छताकार्ये च संलग्नाः भवन्ति स्म । ये जनाः सेवां कुर्वन्ति स्म, ते पारिश्रमिकम् अपि प्राप्नुवन्ति स्म । ते शूद्राः कथ्यन्ते । अनेन प्रकारेण ऋषभदेवेन समानतया कार्यस्य विभाजनं कृतम् ।
शास्त्रेषु निहितेषु चतुर्वर्णेषु वर्णत्रयस्य उत्पत्तिः भगवतः ऋषभदेवस्य शासनकाले एव अभवत् । अनन्तरं भरतस्य शासनकाले ब्राह्मणवर्णस्य उत्पत्तिः जाता ।
राज्यसभायां, ग्रामेषु प्रवचनं कर्तुं, शिक्षणं प्रदातुं च जनानाम् आवश्यकता वर्तते स्म । अतः राज्ये ये जनाः वाक्पटवः आसन्, ते जनाः प्रवचनादिकार्येषु संलग्नाः अभवन् । ते ब्राह्मणाः कथ्यन्ते स्म ।
सामूहिकजीवनस्य विचारं कृत्वा ऋषभः ग्राम्यव्यवस्थायै प्रयासं कृतवान् । सः जनान् सामूहिकजीवनस्य महत्त्वम् अवाबोधयत् । तेन उक्तं यत् – “इदानीं समयः परिवर्तितः । अतः निवासे अपि परिवर्तनमावश्यकम् । इदानीन्तनं यावत् वयं वृक्षाणामधः निवसामः स्म । ऋतवः अपि सानुकूलाः आसन् । किन्तु अधुना ऋतवः कदाचित् अनुकूलाः, कदाचित् प्रतिकूलाः च भवन्ति । शीतलतायाः, उष्णतायाः च अपि आधिक्यं भविष्यति । तेन कारणेन शारीरिकी सहनशीलता अपि न्यूनां भविष्यति । अतः गृहनिर्माणं करणीयम्” इति ।
सर्वैः जनैः सामूहिकजीवनस्य महत्त्वम् अवगतम् । ये जनाः वने निवसन्तः आसन्, ते ग्रामम् आगत्य निवसितवन्तः । यत्र सर्वे निवासं कुर्वन्ति स्म, सा विनीता-नगरी आसीत् । सा नगरी साम्प्रतम् अयोध्या इति नाम्ना ख्याता वर्तते [3]।
यौगलिकेषु बहवः जनाः अपराधान् कुर्वन्ति स्म । जनेषु अपराधवृद्धिम् अपाकर्तुम् ऋषभेण दण्डविधेः रचना कृता । पुरा “धिक्कार” इति नामकः दण्डः दीयते स्म । किन्तु तस्य प्रभावः न्यूनः अभवत् । तेन कारणेन ऋषभेण नूतनदण्डविधेः रचना कृता । तेन उद्घोषितं यत् – यः कोऽपि अपराधं करिष्यति, तस्मै कठोरदण्डं दास्यामि ।
नूतनदण्डविधौ ऋषभेण चत्वारः प्रकाराः सृष्टाः ।
१ परिभाषणम् - अपराधिने कठोरशब्दैः प्रताडनम् ।
२ मण्डली-बन्धः – अपराधिनः क्षेत्रं सीमितं करणम् ।
३ चारक-बन्धः – अपराधिने कारावासः ।
४ छविच्छेदः – अपराधिनः कस्यचित् अङ्गस्य छेदनम् ।
उपरोक्ताः प्रदत्ताः दण्डाः अत्यन्तं प्रभावकाः आसन् । तैः दण्डैः राज्ये अपराधेषु नियन्त्रणं जातम् । अनेन कारणेन सर्वे सन्तुष्टाः आसन् ।
ऋषभदेवेन जनेषु स्वावलम्बिताम् आनेतुं विविधं शिक्षणं प्रदत्तम् आसीत् । कलायाः शिक्षणम् अपि प्रदत्तम् ।
भगवतः ऋषभस्य जीवनस्य अधिकानि वर्षाणि सामाजिकराजनैतिकमहत्त्वानां स्थापनायै व्यतीतानि जातानि । लोकजीवनस्य शुद्धिकरणे तस्य महत्परिश्रमः आसीत् ।
समयान्तरे देवलोकस्य सारस्वतः, आदित्यः, अग्निः, वरुणः, गर्दतोयः, तुषितः, अव्याबाघः, आग्नेयः, रिष्टः च एते नव देवाः ऋषभस्य निवासस्थलं गतवन्तः । देवैः ऋषभः उक्तः यत् – “भगवन् ! लोकव्यवहारस्य सम्पूर्णव्यवस्था भवता कृता । कृपया इदानीं धर्मतीर्थानां प्रवर्तनं कुरु” इति । ततः परं सर्वे देवाः स्वर्गलोकं गतवन्तः ।
देवतानां वचांसि श्रुत्वा ऋषभः निश्चयं कृत्वा भूमण्डलस्य एकोत्तरशतधा विभागान् कृतवान् । अनन्तरं तेन प्रत्येकेषां विभागानां दायित्वं स्वस्य पुत्रेभ्यः प्रदत्तम् । तत्पश्चात् ऋषभदेवः दायित्वात् निवृत्तः अभवत् । सः वार्षिकीदानं कुर्वन् आसीत् । तदा सर्वे जनाः दृष्ट्वा अवगतवन्तः यत् – “ऋषभदेवः गृहं त्यत्क्त्वा गच्छति” इति ।
जनाः चिन्तिताः अभवन् । ते विचारयन्ति स्म यत् – “वयं किं करिष्यामः ? अस्माकं कष्टानां, समस्यानां च समाधानं कः करिष्यति ? यद्यपि ऋषभदेवेन भरतादिभ्यः पुत्रेभ्यः दायित्वं प्रदत्तम् अस्ति, तथापि ऋषभदेवसदृशी कस्यापि क्षमता नास्ति । तादृशी प्रतिभा अन्येषु जनेषु असम्भवा" इति ।
तदनन्तरं सर्वैः जनैः विचारितं यत् – “अस्माभिः अपि ऋषभदेवः अनुकरणीयः । तेन अस्माकं समस्याः स्वयम् ऋषभदेवः एव दूरीकरिष्यति” । फाल्गुन-मासस्य कृष्णपक्षस्य अष्टम्यां तिथौ यदा ऋषभेण गृहं त्यक्तं, तदा चतुस्सहस्रं जनैः अपि दीक्षा स्वीकृता[5] । ऋषभदेवः निष्क्रमणसमये वस्त्राभूषणानि, केशान् च तत्रैव त्यक्तवान् ।
सर्वे दीक्षिताः जनाः ऋषभस्य अनुकरणं कुर्वन्ति स्म । किन्तु ऋषभदेवः मौनं स्वीकृतम् । सः न किमपि खादति स्म, न किमपि पिबति स्म च । ऋषभस्य छद्मावस्थायाः सर्वे दीक्षिताः नैराश्यं प्राप्नुवन् । सर्वे साधुत्वं त्यक्त्वा वनं गतवन्तः । केचित् कन्दाहारिणः, केचित् मूलाहारिणः, केचित् फलाहारिणः वा अभवन् ।
यदा भगवता दीक्षा गृहीता, तदा चतुस्सहस्त्रं शिष्याः तेन सहैव आसन् । किन्तु भगवतः मौनात्, कठोरसाधनायाः च ते सर्वे शिष्याः अज्ञाताः आसन् । अतः सर्वे व्यभिचरन् । केवलज्ञानस्य प्राप्त्यनन्तरं तस्य धार्मिकपरिवारस्य पुनर्गठनमभवत् ।
तस्य परिवारे चतुराशीतिसहस्रं श्रमणाः आसन् । तेषां व्यवस्थायै भगवता चतुरशीतिगणानां रचना कृता । प्रतिगणम् एकः प्रधानः आसीत् । सः गणधरः इति कथ्यते स्म । भगवतः प्रथमः गणधरः ऋषभसेनः आसीत् ।
भगवतः परिवारे विभागाः आसन् यथा –
जैनसाहित्येषु ऋषभदेवस्य सविस्तरं वर्णनं प्राप्यते । तथैव वैदिकबौद्धसाहित्येषु अपि बहुत्र तस्य उल्लेखः प्राप्यते । पुराणेषु अपि ऋषभस्य वंशपरम्परा दृश्यते । यथा – "ब्रह्मणा आदौ प्रथममनुः उत्पादितः । तत्पश्चात् मनोः प्रियव्रतः, प्रियव्रतात् आग्नीघ्रादयः दश पुत्राः, आग्नीघ्रात् नाभिः, अनन्तरं नाभेः ऋषभस्य च उत्पत्तिः जाता" [6]।
ऋषभेण स्वराज्यं भरताय प्रदत्तम् । तावदेव अयं हिमदेशः भारतदेशः इति नाम्ना प्रसिद्धः जातः । वैदिकग्रन्थेषु ऋषभस्य साधनायाः, तपश्चर्यायाः च विशिष्टं वर्णनं प्राप्यते । दीर्घतपस्यायाः कारणात् ऋषभस्य शरीरं शुष्कं जातम् आसीत् । शरीरस्य नाड्यः अपि दॄश्यन्ते स्म । अन्ते सः नग्नावस्थायां महाप्रस्थानं कृतवान् आसीत् ।
भगवान् ऋषभः अयोध्यातः वहली-पर्यन्तं, यूनान तः स्वर्णभूमिपर्यन्तं विहारं विचरणं भ्रमणं वा कृतवान् । भगवते स्वस्य जीवनावसानस्य पूर्वज्ञानम् अभवत् । अतः सः दशसहस्त्रेण साधुभिः सह अष्टापदपर्वतस्य (कैलाश) आरोहणं कृतवान् । भगवता ऋषभदेवेन पर्यङ्कासने सिद्धत्वं प्राप्तम् आसीत् । अन्ते पौष-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ भगवतः निर्वाणम् अभवत् । भगवतः सम्पूर्णायुष्यं ८४ लक्षम् वर्षाणि आसीत् [7]।
|
विकिमीडिया कॉमन्स् मध्ये ऋषभदेवः सम्बन्धिताः सञ्चिकाः सन्ति। |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.