![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/79/India_Chhattisgarh_locator_map.svg/langsa-640px-India_Chhattisgarh_locator_map.svg.png&w=640&q=50)
छत्तीसगढराज्यम्
भारतवर्षे एकं राज्यम् / From Wikipedia, the free encyclopedia
छत्तीसगडराज्यं (Chhattisgarh) भारते स्थितं किञ्चन राज्यम् अस्ति । इदं नूतनतया निर्मितम् अस्ति । मध्यप्रदेशराज्यस्य कानिचनमण्डलानि मेलयित्वा पृथक्राज्यं सा.श.२००० तमे वर्षे नवम्बरमासस्य प्रथमदिने कृतम् । अस्मिन् राज्ये ३५ जातीयजनाः निवसन्ति । नाल्कार् बैरा, मुण्डमदिया, नाहर् इत्यादयः जनाः अत्र कृषिं मृगयां मत्स्योद्यमं सीवनं काष्ठकार्यं, लोहोद्यमं च कुर्वन्ति । हजारीबाग् प्रपातप्रदेशे एतेषां जीवनदर्शनं कर्तुं शक्यते । अत्र प्राचीनकाले गुहासु निर्मितभित्तिचित्राणि करणपुरं, सौत् पहार्, इत्यदिषु स्थानेषु सन्ति । एतत् दृष्ट्वा इङ्ग्लैण्ड् देशस्य स्टोन् देञ्ज् स्थानस्य स्मरणं भवति । बस्तारप्रदेशः जगदलपुर् मण्डलेऽस्ति । छत्तीसगढ मध्यभारतस्य किञ्चन राज्यं भवति । मध्यप्रदेशस्य आग्नेय कोणे विद्यमानः प्रदेशः छत्तीसगढ भवति। अत्र "छत्तीसगढि" भाषया व्यवहरन्ति स्म जनाः। ’२७’ मण्डलानि सन्ति छत्तीसगढ राज्ये । छत्तीसगढराज्यस्य राजधानी रायपुर भवति । भारतीय राज्येषु विस्तीर्णे अस्य राज्यस्य दशमस्थानं भवति । अस्य विस्तारः ५२,१९९ चतुरस्रमैलपरिमितं भवति । अस्य राज्यस्य वायव्ये मध्यप्रदेशः, पश्चिमे महाराष्ट्रा, दक्षिणे आन्ध्रप्रदेशः, पूर्वे ओरिस्सा, ईशान्ये झारखण्डः, उत्तरे उत्तरप्रदेशादयः सन्ति । “छत्तीस् घरी” एषा भाषा हिन्दीभाषायाः कश्चन प्रकारः। एषा भाषा अस्य राज्यस्य मुख्या भाषा अस्ति । ’द्राविडभाषया’ प्रभाविताः भाषाः प्रान्तीयाः भाषाः अपि अत्र सन्ति । छत्तीसगढमूलतः किञ्चन ग्रामीणं राज्यम् अस्ति । नगरप्रदेशे केवलं २०% प्रतिशतं जनाः वासं कुर्वन्ति । छत्तीसगढराज्यस्य अद्यतनमौल्याधारेण २००४ तमे संवत्सरे १२ बिलियन् यु एस् डालर् गृहोत्पन्नम् आसीत् इति । अस्य राज्यस्य मध्यप्रदेशात् विभागकरणानन्तरं ३०% प्रतिशतं खनिजस्य उत्पादनं कुर्वन्ति ।
छत्तीसगढराज्यम् | |
---|---|
![]() भारतस्य भूपटे छत्तीसगढराज्यम् | |
![]() Political Map of Chhattisgarh | |
Established | १ नोवेम्बर २००० |
Capital | रायपुर |
Largest city | Raipur |
मण्डलानि | 27 (9 dist. new) |
Government | |
• Governor | शेखर दत्तः |
• Chief Minister | रामन् सिंहः (भारतीयजनतापक्षः) |
• Legislature | Unicameral (90 seats) |
• Parliamentary constituency | 11 (year 2010) |
• High Court | Chhattisgarh High Court |
Area | |
• Total | १,३५,१९४.५ km२ |
Area rank | 10th |
Population (2011) | |
• Total | २,५५,४५,१९८ |
• Rank | 16th |
• Density | १९०/km२ |
Time zone | UTC+05:30 (IST) |
ISO 3166 code | IN-CT |
HDI |
![]() |
HDI rank | 23rd (2005) |
Literacy | 64.7% (23rd) |
Official languages | हिन्दी भाषा, छत्तीसगरि |
Website | chhattisgarh.nic.in |