अमरनाथः
amarnath / From Wikipedia, the free encyclopedia
अमरनाथः ( ( शृणु) /ˈəmərənɑːthəh/) (हिन्दी: अमरनाथ, आङ्ग्ल: Amarnath) हिन्दूनां पवित्रतमं तीर्थधाम अस्ति । भारतस्य जम्मूकाश्मीरराज्यस्य राजधान्याः श्रीनगरात् १४१ कि.मी. दूरे स्थितास्ति अमरनाथस्य गुहा । भगवतः शिवस्य हिमलिङ्गस्य प्राकृतिकरचना भवति गुहायाम् । अतः तस्य गुहायाः नाम अमरनाथस्य गुहा इति । 'बरफानि बाबा', 'अमरदेव' इत्यादिनामान्तराणि सन्ति अस्य देवस्य । गुहायां प्राकृतिकरीत्या पार्वती-गणेशप्रतिमयोरपि हिमेन रचना भवति । आषाढमासस्य पूर्णिमातः आरभ्य श्रावणमासस्य पूर्णिमापर्यन्तं यात्रायाः समयः अस्ति । तस्यां समयावधौ लक्षशः जनाः अमरनाथस्य दर्शनाय गच्छन्ति । क्लिष्टतमा एषा यात्रा भक्तानां मनोरथान् साधयति ।
त्वरिततथ्यानि अमरनाथः, भौगोलिकस्थितिः: ...
अमरनाथः | |
---|---|
| |
भौगोलिकस्थितिः: | 34.2149°उत्तरदिक् 75.5008°पूर्वदिक् / ३४.२१४९; ७५.५००८ |
नाम | |
शुद्धनाम: | अमरनाथमन्दिरम् |
अवस्थितिः | |
देशः: | भारतम् |
राज्यम्: | जम्मूकाश्मीरम् |
अवस्थितिः: | पहलगाम्,अनन्तनागः |
स्थापत्यकला संस्कृतिश्च | |
मुख्यदेवः/देवी: | शिवः |
इतिहासः | |
स्रष्टा: | प्राकृतिकसंरचना |
जालस्थानम्: | http://www.shriamarnathjishrine.com |
पिदधातु