सुरत
From Wikipedia, the free encyclopedia
सुरत ( ( शृणु) /ˈsʊrətəm/) (गुजराती: સુરત, आङ्ग्ल: Surat)महानगरं गुजरातराज्यस्य दक्षिणे तापीनद्याः तीरे स्थितं महानगरमस्ति । भारतस्य, गुजरातराज्यस्य च अन्यनगरेभ्यः आप्रवासस्य (immigration) आधिक्यात् एतन्महानगरं शीघ्रविकासं कुर्वदस्ति । सद्यः सुरतमहानगरस्य ७०% जनसङ्ख्या नगरेतरवासिनामस्ति । अतः अत्र गुजराती, हिन्दी, आङ्ग्लभाषानां विद्यालयाः सन्ति । अत्र मराठी-बङ्गाली-तमिळ-तेलुगु-उडिया-मलयालमभाषानामपि विद्यालयाः दरिदृश्यन्ते । सुरतमण्डलस्य मुख्यकेन्द्रमस्ति एतन्महानगरम् । भारतस्य स्वच्छतमनगरेषु सुरतमहानगरं सर्वोच्चस्थानेऽस्ति । 'सिल्क सिटी', वज्रनगरम् (The Diamond City), हरितनगरम् (Green City) इति प्रख्यातमेतन्महानगरम् । अस्य सूर्यपुरम् इति नामान्तरम् अस्ति । महानगरस्यास्य वर्तमानं यथा उज्ज्वलमस्ति, तथैव भूतकालोपि आसीत् । आङ्ग्लानां प्रप्रथमशासनम् एतन्महानगरे आरब्धम्, आभारते विस्तृतञ्च । ‘डच्’-‘पुर्तगाली’-जनानाम् एतत् मुख्यव्यापारस्थानमासीत् ।
सूर्यपुरमहानगरम् સુરત Surat | |
---|---|
'Diamond City of the world' | |
सूर्यपुरमहानगरम् | |
देशः | भारतम् |
राज्यम् | गुजरातराज्यम् |
मण्डलम् | सुरतमण्डलम् |
महानगरविस्तारः | ३२६.५१५ चतुरस्रकि.मी. |
जनसङ्ख्या(२०११) | ७,५७३,७३३ |
Government | |
• Type | महापौरपरिषद्-सर्वकारः(Mayor–council government) |
• Body | सुरत म्युनिसिपल् कोर्पोरेशन् |
• महापौरः | निरञ्जनः झञ्झमेरा |
• म्युनिसिपल कमीशनर् | मनोजकुमार दास |
Demonym(s) | सुरती |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
पीनकोड |
३९५ ०XX, ३९४ XXX |
Area code(s) | ०७९ |
Vehicle registration | जीजे-०५,जीजे-२८ |
साक्षरता | ८६.६५% |
भाषाः | गुजराती, हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४९% |
Website | www.suratmunicipal.gov.in |
|