वैदिकी संस्कृतिः
From Wikipedia, the free encyclopedia
वैदिकसंस्कृत्याः ज्ञानं वैदिकवाङ्गमयस्य परिशीलने सति भवति। वैदिकसंस्कृतेः विषयेषु वैदिकयुगस्य भौगोलिकी स्थितिः, अार्याणां निवासस्थलानि, दस्युपणिप्रभृतीनां विवरणं, सामाजिकमार्थिक-राजनैतिक-धार्मिक-जीवनमित्यादिकाः सर्वेऽपि विषयाः अन्तर्भवन्ति। आदिभारतीयाः भानु-शशि-व्योम-भूमिप्रभृतितत्त्वानां ज्ञानं सम्यक्तया निदधन्ति स्म । ते समुद्रनदी-पर्वत-वनादीनामुपादेयतां सर्वाङ्गीणतया विदन्ति स्म । ते दीर्घदीर्घतरां समुद्रयात्रां कुर्वन्ति स्म । तेषां सविधे महान्ति महान्ति जलयानानि आसन्, तैः ते सामुद्रिको व्यापारञ्चकूः।[1]
विश्वस्य प्राचीनतमा संस्कृतिः वैदिकसंस्कृतिः वर्तते । जीवनस्य अन्तरङ्गं स्वरूपं संस्कृतिः एव प्रकाशयति। संस्कृतिशब्देन चिन्तनम्, मननम्, मनोवैज्ञानिक-अन्वेषणम्, दार्शनिकविश्लेषणम्, कर्तव्य-अकर्तव्यविवेचनम्, प्रकृतिपुरुषयो: भेदाभेदनिरूपणम्, जीवनलक्ष्यम्, लोकव्यवस्थितेः साधनानि, इत्यादीनि संगृह्यन्ते। वसिष्ठ-पराशर-अत्रि-भरद्वाज-रामकृष्णादिगोत्रोद्भूतानां भारतभूसम्भवानां मनुष्याणां संस्कृतिः वैदिकीसंस्कृतिः इति नाम्नाद्य सर्वत्र विश्रुता।
वैदिकी संस्कृतिः पुण्या, पुरुषार्थचतुष्टयम्।
शिष्ट्वा लोकान् पुनात्येषा, सत्याचारगुणप्रदा॥ (कपिलस्य) ।
या वेदस्मृतिशास्त्रविन्मुनिवरैर्जुष्टा सुखैकास्पदा,
देवीसम्पदलङकृता भगवता श्रीशेन संरक्षिता।
या वर्णाश्रमधर्मसारहृदया कामार्थमोक्षप्रदा,
नित्या विश्वहितैषिणी विजयते सा वैदिकी संस्कृतिः॥ (कपिलस्य) ।
अस्मदीयाः पूर्वजाः सूर्य-चन्द्र-व्योम-भूमिप्रभृतीनां । तत्त्वानां ज्ञानं सम्यक्तया निदधति स्म। संस्कृतिः तु मानव-सत्व-विकासस्य सा प्रक्रिया भवति, यया कश्चिज्जनः स्वकीयं जीवनोद्देश्यम् । अधिगच्छति।