वैदिकसाहित्यम्
From Wikipedia, the free encyclopedia
वैदिकसाहित्यम् उत वैदिकवाङ्मयं समुद्रवद् अपारम्, अगाधं, हिमालयवत् ससारञ्च च वर्तते। अत एव देवेभ्यः अपि तत् आदृतं भवति । सर्वेऽपि वेदाः मन्त्ररूपाः एव । यज्ञादिषु अवसरेषु ब्राह्मणप्रयुक्तैः तैः मन्त्रैः आवाहनादिविधिना अावाहिताः देवाः तत्र तत्र अायान्त्यैव इत्यत्र श्रुतिरेव प्रमाणम्।[1] वेदोक्तमन्त्राणाम् आश्चर्यकरः प्रभावो। यतो हि एतेषां विलक्षणप्रभावान् दृष्ट्वा, विचार्य, संश्रुत्य च भारतीयैः किं वा वैदेशिकैश्च विद्वद्भिः एतेषां संरक्षणाय, सम्यग्ज्ञानाय च समये-समये बहुकिमपि कृतम् अस्ति। वैदिकवाङ्मयस्य संरक्षणे, समुपबृंहणे च पाश्चात्यविपश्चितां यावान् श्रमो दृष्टिपथम् आयाति, न तावान् भारतीयानाम् । प्राचीनासु भारतीयभाषासु यथा संस्कृतं सर्वातिशायि अस्ति, तथैव सर्वेषु वाङ्मयेषु वैदिकवाङ्मयं प्रामाणिकरूपेण स्वीक्रियते। सर्वत्र ‘वेदाः प्रमाणम्' इति मतं समानतयाङ्गीक्रियते। सर्वेऽपि मतावलम्बिनः स्वं मतं वेदोक्तैः प्रमाणैः परिपुष्टतां गमयित्वा स्वां कृतिं धन्यां, स्वं च घन्यं कलयन्ति। विषयेऽस्मिन् न केवलं भारतीया एव श्रद्धालवः, अपि तु पाश्चात्या अपि विद्वांसः श्रद्धावद्धावधाना दृश्यन्ते ।
भारतीयानां समस्तं साहित्यं वेदैरेव परिबृंहितम् अस्ति। महर्षिः बादरायणिः अत एव वेदव्यासनाम्ना सम्मानभागभवत् । यत्तेन महात्मना वेदानामेव व्याख्यानम् अष्टादशपुराणानां रूपेण विहितम् । मीमांसाशास्त्रे पुराणानां महन्महत्त्वं वणितमस्ति । ‘भारतं पञ्चमो वेदः' इति आकारिकासूक्तिः तु प्रसिद्धा एव। यद्यपि भारतीया विद्वांसो वेदानाम् अपौरुषेयत्वं साटोपं (आत्मतृप्त्यै) स्वीकुर्वन्ति, तथापि वेदानां मन्त्राः, तेषामुपदेशाश्च अपौरुषेयत्वेऽपि ईश्वरोक्तत्वाद् आप्तप्रमाणत्वेन स्वीक्रियन्त एव। अन्यत्रापि ‘वेदो नित्यमधीयतां तदुदितं कर्मस्वनुष्ठीयताम्'[2] इत्यादीनि वचांसि वेदोक्तीनां प्रामाण्यमेव साधयन्ति।
अपरत्रापि दृगुन्मेषोविधीयतां यद्यपि वेदाश्वत्वार एव केचित् वेदत्रयीमपि स्वीकुर्वन्ति । इत्याकारकविवादस्य विचारो सुधिया ग्रन्थकर्त्रा विस्तृतरूपेण यथास्थानं समुपन्यस्तः । तथापि आयुर्वेदः, धनुर्वेदः, गान्धर्ववेदः इत्यादीनां वेदानां गणना केवलं तेषां तेषां विषयाणां प्रामाणिकतां स्वीकारणार्थ तत् तद् ग्रन्थकर्तृभिः महर्षिभिः कृतेति निश्चप्रचम् (निश्चितं प्रचितम्)।
विदन्त्येव सर्वे विद्वांसो यद्, वेदा एव भारतवर्षस्य भारतीयसंस्कृतेश्व मुख्यमवलम्बनमिति। ते च भगवता कृष्णद्वैपायनेन शिष्याणां ग्रहणसौकर्य्याय ऋग्यजुःसामाथर्वभेदेन चतुर्धा विभज्य यथाक्रमं पैल-वैशम्पायन-जैमिनि-सुमन्तुभ्यः प्रदत्ताः । कालक्रमेण शिष्योपशिष्यैः गृहीतास्ते बहुशाखात्वम् आपन्नाः। तदुक्तं व्याकरणमहाभाष्ये पस्पशाह्निके भगवता पतञ्जलिना-
'एकशतमध्वर्युशाखाः, सहस्रधत्मा सामवेदः ॥
एकविशतिधाबह्वृचं, नवधा आथर्वणो वेदः ॥' इति ॥
तत्रायं वेदः भारतीयसंस्कृत्याः मूलस्रोतमस्ति। विश्वस्यागमेषु वेदाः प्राचीनतमाः,[3] अत एव नृशास्त्रज्ञानां, मानवप्रकृतेः अध्येतॄणां जगतो विभिन्नेषु धर्मेषु सश्रद्धं प्रवर्त्तमानानाच्च जनानां सानुरागविषया इमे वेदाः। ये जना वेदानाम् अभ्यन्तरे सांसारिकसमस्तैश्वर्याणाम् अन्वेषणम् अक्लान्तपरिश्रमेण कुर्वन्ति, ते न जानन्ति वेद-ज्ञानयोर्मध्येऽन्तरमस्ति इति। विद्-धातौ तथा ज्ञा-धातौ सामान्यतः एकत्वे सत्यपि मूलतः पार्थक्यम् अस्ति। भौतिकविद्यायाम् अभिज्ञतायाः नाम अस्ति ज्ञानं, तथा च अध्यात्मशास्त्रस्य तथ्यानाम् अवगत्याः नाम अस्ति वेद इति । एकस्य लक्ष्यं बाह्यविषयाणाम्, अपरस्य च अभ्यन्तर-विषयाणां विश्लेषणमस्ति । वेदज्ञानशब्दयोः पार्थक्यं संस्कृतेन सम्बद्धानाम् अनेकयूरोपीयभाषागतशब्दानाम् अनुशीलनेनापि ज्ञायते। जर्मनभाषायां द्वौ सम्बद्धौ धातू स्तः - केन्नेन (Kennon) तथा वाइसेन ( Weisen) इति। आङ्ग्लभाषायामपि द्वौ सम्बद्धौ शब्दौ स्तः - नालेज ( Knowledge ) तथा विजडम (Wisdom) इति। अनयोः 'केन्नेन' तथा 'नालेज' इत्यनयोः शब्दयोः साक्षात्सम्बन्धमस्ति संस्कृतस्य ‘ज्ञा'-धातुना सह तथा ‘वाइसेज' एवं 'विजडम' इत्यनयोः शब्दयोः सम्बन्धमस्ति ‘विद्'धातुना सह। अतः ‘वेद' इत्यस्य शब्दस्य मौलिकतात्पर्यमस्ति अध्यात्मविषयाणामन्वेषणम् इति।
सायणाचार्यानुसारेण वेदस्य वेदत्वं प्रत्यक्षेणानुमानेन च अगम्योपायस्य बोधने एवाऽस्ति।
'प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुद्ध्यते ।
एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥'
रॉय-मैक्समूलर-वेवर-आउफ्रक्ट-गेल्डनर-स्टीवेन्सन-श्रोदर-वेनफी-ह्विटनी-ब्लूमफील्ड-गार्वे-लिण्डनर-वर्नेल-एर्टल-कैलेण्ड-गास्ट्रा-हिलेब्राण्ट-क्नाउएरो-विल्सन-ओल्डनवर्ग-कीथ-लेनमेन-ग्रिफिथ-एगलिग-मैकडोनलप्रभृतयः अनेके पाश्चात्यविपश्चितः अप्येतेषां सम्यगध्ययनाय समाकृष्टा इव प्रवृत्ताः। पाश्चात्याः इमे विद्वांसः अधीत्येमं वेदराशिं बहुकिमपि गभीरमुल्लिखितवन्तः। वैदिकधर्मस्य धर्मान्तरेण तुलनां विधाय ते तुलनाप्रधानवैदिकधर्मविषयकान् ग्रन्थान् बहून् लिखितवन्तः । अस्मिन् क्षेत्रे मैक्समूलर-मैक्डोनल-हिलेब्राण्टमहाभागानां नामानि सन्त्युल्लेखनीयानि । हिलेब्राण्ट इत्यस्य 'वेदिशे मायोलोजी' मैक्डोनलस्य च 'वैदिकमाथोलोजी' व्यापकत्वात् प्रामाणिकत्वाच्चोपादेये स्तः । फ्रेञ्चविदुषाश्च श्रौतसम्बन्धिनोऽनेके ग्रन्था दृश्यन्ते ।
चत्वारोऽपि वेदाः साधारण्येन मन्त्रब्राह्मणयोर्द्वयोर्भागयोविभक्ताः । वेदपदवाच्याः संहितारूपा एव वेदा इत्यपि नास्ति भारतीयपरम्परानुरूपी न्याय्यश्च विचारः । तत्र ऋग्वेदस्य, सामवेदस्य, शुक्लयजुर्वेदस्य, अथर्वणश्च मन्त्रभागाः संहितापदवाच्याः, किन्तु कृष्णे यजुर्वेदे संहितायामथवा ब्राह्मणे मन्त्राः ब्राह्मणानि इत्येतौ उवुभावपि सम्मिलितौ वर्तते ।
वेदेषु ज्ञान-विज्ञान-धर्म-दर्शन-सदाचार-संस्कृति-नैतिक-सामाजिक-राजनैतिकप्रभृतीनां जीवनोपयोगिविषयाणां सन्निवेशोऽस्ति । यत्र प्रत्यक्षस्य न चानुमानस्य प्रवेशस्तत्रापि ते प्रविशन्ति। स्मृतिपुराणादीनां मान्यत्वं तदनुगामित्वम् एवावतिष्ठते । प्राचीनानि धर्म-समाज-व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते । वेदास्तु धर्ममूलतयैव सर्वथा समादृताः सन्ति । मनुना प्रोक्तश्च - ‘वेदोऽखिलो धर्ममूलम्' तथा ‘वेदाद्धर्मो हि निर्बभौ' इति। एवञ्च महाभाष्यकृता पतञ्जलिना ब्राह्मणेन षडङ्गवेदाध्ययनस्यानिवार्यत्वमुच्यते स्म । तथाहि-
‘ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च॥'[4]
वेदेषु अध्यात्मदर्शनस्य उत्कृष्टभाण्डागारं निक्षिप्तमस्ति । किञ्च तेषां प्रतिपादनरीतिः अर्वाचीनप्रतिपादनशैलीतः सर्वथा भिन्ना एव ।