![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c6/Buddha_with_transparent_background.png/640px-Buddha_with_transparent_background.png&w=640&q=50)
माध्यमिकाः
From Wikipedia, the free encyclopedia
माध्यमिकानां सिद्धान्तः शून्यवादोऽस्ति । शून्यवादमतानुसारेण बाह्मपदार्थोऽपि सत्यं नास्ति, आन्तरपदार्थोऽपि सत्यं नास्ति, विज्ञानमपि सत्यं नास्ति । शून्यमेव सत्यं वर्तते । अथ शून्यम् किं अस्तीति विचार्यते । शून्यं किं अभावोऽस्ति? अत्र माध्यमिकानां मतं वर्तते यत् शून्यं न तु भावरूपमस्ति, न चाभावरूपमेवास्ति । इदन्तु अनिर्वचनीयं विद्यते । सर्वेभ्यो भिन्नतया एवास्य शूनसंज्ञाऽस्ति ।
![]() | |
इतिहासः
| |
सिद्धान्ताः
| |
अनुशीलनम्
| |
निर्वाणः
| |
सन्दर्भविषयाः
| |
![]() |
इदमेव बौद्धदर्शनस्यान्तिमं सत्यमस्ति । तथाहि सर्वप्रथमं वैभाषिकसम्प्रदायेन बाह्यार्थस्य प्रत्यक्षसत्ता स्वीकृता । तत्पश्चात् सौत्रान्तिकेन बाह्यार्थानुमेयवादस्य सिद्धान्तः प्रतिपादितः । तदनन्तरं योगाचारेण विज्ञानमात्रस्य सत्ता अङ्गीकृता । अन्ते च माध्यमिकेन शून्यमेव परमतत्त्वमिति संसाधितम् । एषु सम्प्रदायेषु वैभाषिकः हीनयानं स्वीकरोति,अवशिष्टाश्च त्रयः सम्प्रदायाः महायानं स्वीकुर्वन्ति ।