![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/81/Kurukshetra.jpg/640px-Kurukshetra.jpg&w=640&q=50)
महाभारतम्
प्राचीनभारतस्य बहुप्रसिद्धः महाकाव्यम् / From Wikipedia, the free encyclopedia
महाभारतम् महर्षिणा वेदव्यासेन विरचितो बहुप्रसिद्धो महाकाव्यं विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्धं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्म-अर्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्भगवद्गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशो गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/8/81/Kurukshetra.jpg/320px-Kurukshetra.jpg)