बौद्धधर्मः
From Wikipedia, the free encyclopedia
भगवता बुद्धेन बौद्धदर्शनं प्रवर्तितम्। भारतीयशास्त्राधारेषु बौद्धदर्शनस्य प्रभावः विशेषतः दृश्यते। बौद्धमूलग्रन्थाः भारते लुप्तप्रायाः सन्ति। विदेशीयपण्डितानां संशोधनस्य फलतः इदानीं केचन् ग्रन्थाः दृश्यन्ते। भगवतः बुद्धस्य अनन्तरं बौद्धेषु बह्व्य: शाखाः उत्पन्नाः। ताश्च चतस्रः प्राधान्येन - वैभाषिकाः, सौत्रान्तिका:, योगाचाराः, माध्यमिकाः चेति। वैभाषिकाणां हीनयानसम्प्रदायः। अन्येषां त्रयाणां महायानसम्प्रदायः। बौध्दानां 'शून्यवादः' प्रसिध्दः।'यत्र किमपि नास्ति तत्' इति अत्र शून्यपदस्य अर्थः न। बौध्ददर्शने शून्यपदस्य दार्शनिकः विशालः अर्थः अस्ति। बौध्दमतस्य धार्मिकाः बहवः अंशाः 'त्रिपिटके निरूपिताः सन्ति।
इतिहासः
| |
सिद्धान्ताः
| |
अनुशीलनम्
| |
निर्वाणः
| |
सन्दर्भविषयाः
| |
अस्य दर्शनस्य आद्यप्रवर्तकः श्रीबुद्धः अस्ति । शुद्धोदनस्य मायादेव्याः च सुतः गौतमगोत्रजः क्षत्रियः सिद्धार्थः एव पश्चात् बोधोदयात् बुद्धः इति प्रथितः अभवत् । बौद्धदर्शनस्य परमसिद्धान्तः ‘दु:ख्स्य मूलम् आशा’ इत्यस्ति । माध्यमिक-योगाचार -सौत्रान्तिक-वैभाषिकभेदात् चतुर्धा विभज्यते । प्रपञ्चम् अधिकृत्य तेषां दृष्टिः एवं श्रूयते-
- मुख्यो माध्यमिको विवर्तमखिलं शुन्यस्य मेने जगत्
- योगाचारमते तु सन्ति मतयस्तासां विवर्तोखिलः ।
- अर्थोस्ति क्षणिकस्त्वसानुमितो बुद्धेति सौत्रान्तिकः
- प्रत्यक्षं क्षणभङ्गुरं च सकलं वैभाषिको भाषते । इति ॥
बौद्धदर्शनप्रचारणं पालिभाषायाम् आसीत् । संस्कृतावगणना एव बुद्धमतनाशकारणेषु अन्यतमा इति विवेकानन्दादयः कथितवन्तः इति अत्र स्मर्तव्यम् । प्रत्यक्षम् अनुमानम् इति द्वे प्रमाणे बौद्धाः अङ्गीकुर्वन्ति ॥
बौद्धदर्शनम् ऐतिहासिककालक्रमेण जैनदर्शनस्य परवर्त्ती अस्ति । अस्येदं कारणं वक्तुं शक्यते,यत् महावीरपर्यन्तं जैनतीर्थङ्कराणाम् अन्येषां दार्शनिकानां च साहित्ये कुत्रापि बौद्धदर्शनस्य उल्लेखो नास्ति,किन्तु महावीरस्य सिद्धान्ता बौद्धनिकायेषु उपलभ्यन्ते । अनेन सिद्ध्यति यत् बौद्धधर्मो जैनधर्मापेक्षया परवर्त्ती अस्ति । इदम् ऐतिहासिकं सत्यम् अस्ति ।
बौद्धदर्शनस्य प्रवर्तको भगवान् बुद्ध आसीत् । इयमपि ऐतिहासिकी घटनाऽस्ति । बुद्धस्य पूर्वनाम् सिद्धार्थ इत्यासीत् । अस्य जन्म ई.पू.२२६ इत्यवर्तत । अस्य पिता शक्यवंशीयो नृपः शुद्धोदन आसीत् । अस्य माता मायादेवी अस्य जन्मनः एकसप्ताहनन्तरमेव दिवङ्गताऽभवत् । अस्य जन्मसमये कपिलवस्तुनो राजज्योतिर्विद्भिः भविष्यवाणी कृता,यदमुष्य महाभिनिष्क्रमणं भविता,धर्मप्रवर्तकश्चायं भवेत् इति ।
तदनुसारमेव सिद्धार्थः एकोनविंशतिवर्षीयायां वयसि स्वपत्नीपुत्रौ परित्यज्य सांसारिकदुःखानाम् आत्यन्तिकविनाशाय उपायान्वेषणप्रयोजनात् राजभवनमपि त्यक्तवान् । सः चिरशान्तिलाभाय ज्ञानार्जनाय च गहनं वनं प्रविष्टवान् । ज्ञानान्वेषणप्रयत्ने सर्वप्रथमं सः सांख्यतत्त्वविदः अराडकलामस्य शिष्यत्वे सत्यानुसन्धानं कृतवान्,किन्तु असन्तुष्टे सति विविधस्थानेषु ज्ञानोपदेशानां श्रवणानन्तरम् उरुवेलायां कठोरं तपः कृत्वा आर्यसत्य- चतुष्टयं विज्ञातवान् । तस्मात्तस्य निखिलं कल्मषं विनष्टं बुद्धत्वञ्च सम्प्राप्तम् ।
तदनन्तरं सर्वप्रथमं सः सारनाथे कौण्डिन्यादीन् पञ्चशिष्यान् उपदिश्य धर्मचक्रं प्रवर्तितवान् । जनकल्याणाय तस्योपदेशानां भाषा मागधी आसीत् । धर्मोपदेशं कुर्वाणस्य तस्य अशीतिवर्षीयं दीर्घजीवनं वैशाखमासस्य पूर्णिमायाः पर्याप्तं महत्वं स्वीक्रियते यतो हि एषा तिथिः बुद्धस्य जन्मनिर्वाणयोः तिथिरस्ति ।