प्रतापचन्द्रसारङ्गी
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
प्रतापचन्द्रसारङ्गी भारतसर्वकारस्य राज्यमन्त्री वर्तते। एषः पशुपालनविभागस्य, लघूद्यमस्य च मन्त्री। ओडिशाराज्यस्य बालाशोर् प्रान्तस्य राजनेता। भारतीयजनतापक्षस्य कार्यकारिसदस्यः। पूर्वं द्विवारम् ओडिस्साविधानसभायाः सदस्यः आसीत्। सः नीलगिरिविधानसभाक्षेत्रस्य प्रतिनिधिः आसीत्।[1]
प्रतापचन्द्रसारङ्गी | |
---|---|
व्यैय्यक्तिकसूचना | |
Born | गोपीनाथपुरम्, ओडिशाराज्यम्, भारतम् |
Nationality | भारतीयः |
Political party | भारतीयजनतापक्षः |
Alma mater | उत्कलविश्विद्यालयः |
प्रतापसारङ्गी ओडिस्साज्यस्य बालाशोर् मण्डलस्य नीलगिरि उपमण्डलस्य गोपीनाथपुरे जन्म प्राप्तवान्। पदविशिक्षणं बालाशोरस्य फकीरमोहन विद्यालये प्राप्तवान्। एषः विद्यालयः उत्कलविश्विद्यालयस्य अधीने वर्तते।[2] बाल्यादारभ्य एव तस्य अध्यात्मविषये आसक्तिः आसीत्। रामकृष्णमठस्य सन्न्यासी भवितुम् इष्टवान्। रामकृष्णमठस्य मुख्यालयं कोलकत्तानगरस्य बेलूरुमठम् तदा तदा गच्छति स्म। मठस्य सन्न्यासिनः प्रतापचन्द्रस्य परीक्षणं कृतवन्तः। तदानीं तस्य विधवा माता जीविता अस्ति इति इति विषयं ज्ञात्वा ग्रामं गत्वा मातुः सेवां कर्तुं सूचितवन्तः। ग्रामं प्रत्यागतः सः अनेकेषु सामाजिककार्येषु स्वात्मानं योजितवान्।[3]
सारङ्गी राष्ट्रियस्वयंसेवकसङ्घस्य मण्डलस्तरीयम् उत्तरदायित्वं स्वीकृत्य कार्यं निरूढवान्।[उद्धरणं वाञ्छितम्] सः निर्धनिकानां कृते समर्काराकेन्द्रनाम्ना शालाः आरब्धवान्। एताः शालाः गणशिक्षामन्दिरस्य अधीने आसन्। सारङ्गी बालाशोरे मयूर्बन्यां च शालाः आरब्धवान्।[4] अग्रे विधानसभासदस्यत्वस्य वेतनमपि शालाभ्यः एव अर्पितवान्।[उद्धरणं वाञ्छितम्].
सः २०१४ तमे वर्षे अपि बालाशोर् लोकसभाक्षेत्रात् भारतीयजनतापक्षस्य अभ्यर्थित्वेन स्पर्धाम् अकरोत्। तत्र तस्य पराजयः अभवत्। [5] २०१९ तमे लोकसभानिर्वाचने पुनरपि बालाशोरतः स्पर्धां कृत्वा विजयं प्राप्तवान्। बिजुजनतादळस्य लोकसभासदस्यः रवीन्द्रकुमारजेना एतेन १२९५६ मतैः पराजितः।.[6]
मे २०१९ तमे वर्षे सारङ्गी राज्यमन्त्रीरूपेण प्रमाणवचनं स्वीकृतवान्। सः पशुपालनस्य, मत्स्योद्यमस्य, लघूद्यमानां च राज्यमन्त्रित्वेन नियोजितः।[7]
१९९९ तमे वर्षे क्रैस्तधर्मगुरुः एवं तस्य शिशुद्वयस्य च दाहः ओडिस्साराज्यस्य मनोहरपुरे अभवत्। तद्दाहं भजरङ्गदलजना एव कृतवन्तः इत्यारोपः आसीत्। तदानीं प्रतापचन्द्रसारङ्गी भजरङ्गदलस्य मुख्यः आसीत्। [8][9]दारासिङ्गनामकः अत्र प्रकरणे अपराधी इति २००३ तमे वर्षे उद्घोषणं जातम्। प्रतापसारङ्गी तु निरपराधी इति उद्घोषणा जाता।[10][11]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.