From Wikipedia, the free encyclopedia
पुरा नवं पुराणमिति(पुरापि नवमिति पुराणञ्चेति) व्युत्पत्तिः ।
परम्पराः
|
तत्त्वज्ञानिनः
|
अन्यविषयाः
|
प्रवेशद्वारम्:सनातनधर्मः |
इति पुराणं पञ्चलक्षणयुक्तं स्यादिति प्रतिपादितम् । तत्र प्रतिसर्गो नाम ब्रह्मादीनां सृष्टिः । वंशो नाम देवाऽसुरादिविभेदोत्पत्तिः । कालक्रमेण पुराणेष्वपि इतिहासेष्विव बह्व्यः कथाः प्रविष्टाः । ततश्च पुराणेतिहासौ प्रायस्तुल्यलक्षणलक्षितौ दृश्येते । पुराणानां धार्मिकदृष्ट्या महत्वमधिकम् । वेदविहितानां धर्माणां सरलसुबोधभाषायां वर्णनायैव पुराणानि विरचितानि –
यदा वेदार्थ: लोकानां बुद्धौ नारोढुं प्रवृत्तस्तदा वेदार्थस्य विवरणरूपेण दृष्टान्तेतिहासाद्यलङ्कारसहितानि पुराणानि विरचितानीति केचन अभिप्रयन्ति । परन्तु वेदेभ्य: पूर्वमेव ब्रह्ममुखान्निस्सृतानीति साम्प्रदायिकास्तिकानामभिप्राय:। तस्मादेव तन्नाम अन्वर्थकञ्च । समाजस्य तात्कालिकस्वरुपबोधनायापि पुराणानां महानुपयोगः पुराणेषु प्राचीनभारतस्येतिहासो निहितः । पुराणोक्तानामितिवृत्तानां प्रामाणिकत्वं शिलालेखादिभिरपि कर्त्तुमारब्धम्, अतो विदेशीया अपि विद्वांसः पुराणे धृतादराः प्रतिभान्ति । इतिहासा यदि राज्ञां वृत्तं प्राधान्येन बोधयन्ति तदा पुराणानि राज्ञां वृत्तैः सह ऋषीणामपि वृत्तं बोधयन्तीति परमोपयोगित्वं पुराणानाम् ।
पुराणानि भौगोलिकसामग्रीमपि प्रस्तुवन्ति । काशीखण्डे काशीपुर्यास्तादृशं विस्तृतं वर्णनं विद्यते येन तस्या मानचित्रमिव पुरत उपतिष्ठते । अन्येष्वपि पुराणेषु तेषां तेषां तीर्थानां तादृशं स्पष्टं वर्णनमुपलभ्यते, येन तत्परिचये सौकर्यमाधीयते । पुराणेषु अतिशयोक्तिपूर्णा शैली समादृता येन लोकास्तानि अविश्वसनीयानि काल्पनिकानि च प्रतियन्ति स्म । तत्र बोद्धव्यमिदं यत् त्रिधा वर्णनं क्रियते –वस्तुतत्त्वकथारुपेण, रुपकद्वारा, अतिशयोक्तिद्वारा च । वस्तुतत्त्वकथा वैज्ञानिकानाम, ते हि वस्तु यथावद् वर्णयन्ति, न किमपि रञ्जनं तत्राचरन्ति । रुपकद्वारा वस्तुकथनप्रणाली वेदेषु व्यवह्रियते, तत्र हि उषः सुन्दरी कृता, वृत्रश्च राजाकृतः । अतिशयोक्तिप्रणाली पुराणेष्वादृता । अस्यां प्रणाल्यां वर्णिता अर्था यथामति विविच्य ग्रहीतव्या भवन्ति । पुराणानां तुलनात्मकमध्ययनं तदन्तस्तले प्रवेशनं च यदि क्रियेत तदा तत्रत्य इतिहासभागः सामाजिकवर्णनारहस्यं च स्पष्टमवभासेत इति विदुषां विचारः । वेदा:--प्रभुसम्मिता:(राजशासनवत्)।
उदा-सत्यान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। स्वाध्यायान्न प्रमदितव्यम्।....अन्नं न निन्द्यात्। तद्व्रतम्।
पुराणेतिहासादय:--मित्रसम्मिता:(मित्रसलहारूपेण)। काव्यादय:--कान्तासम्मिता:(भार्येवाभिरमयन्ति बोधयन्त:)
पुराणं पुरातनमाख्यानमुच्यते । संस्कृते पुराणशब्दश्चिरन्तनपर्यायः । पुराणेषु भूता वर्त्तमाना भाविनश्चार्या वर्ण्यन्ते । इतिहासे तु भूता एवार्था वर्ण्यन्त इति पुराणेतिहासयोरन्तरम् । प्राचीनास्तु पुराणमपीतिहासशब्देनाभिदधते । पुराणेषु पुराणलक्षणमित्यमुक्तम् –
पुराणानां रचना कदा जातेति प्रश्ने निम्नलिखितविषयाः पूर्वं ध्यातव्याः –
एवमिमे सर्वे वेदाः निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वयाख्याताः सपुराणाः सस्वराः । (गोपथप्रपा.२)
तदिमानि सर्वाणि तत्त्वानि पुराणानां वैदिककालेऽप्यस्तित्वं समर्थयन्ते । ईसवीयशतकात् षट शतकपूर्वतनकाले पुराणानामस्तित्वमासीदिति कल्पनाऽपि सत्यानुमोहिता । इदं तु सत्यं यत् पुराणस्यादिमं रुपं सम्प्रति नावाप्यते । पुराणं कदाचिदेकत्र समये नारच्यत, समये समये तत्राध्याया योजिताः गुप्तकालपर्यन्तं तेषां वर्त्तमानरुपमुपन्नमासीत् ।
पुराणानां संख्याविषये मतभेदो नास्ति, सर्ववादिसिध्दं तेषामष्टादशत्वम् ।
श्लोकोऽयं पुराणानां नामानि संगृह्णाति ।
अ – अग्निपुराणम् – १२ ना – नारदपुराणम् – १३ प – पद्मपुराणम् - १४ लि – लिङ्गपुराणम् – १५ ग – गरुडपुराणम् – १६ कू - कूर्मपुराणम् – १७ स्क – स्कन्दपुराणम् -१८ एतत्पुराणातिरिक्तानि अष्टादशोपपुराणान्यप्याख्यायन्ते
इत्यादयः सन्ति ।एवं एतदन्ये शताधिकपुराणानि सन्ति।
संस्कृतस्य धार्मिकसाहित्ये प्रमुखपात्रं वहति पुराणसाहित्यम् । पुराणम् इत्यस्य प्रमुखतया अर्थद्वयं दृश्यते ।
“उद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः” उ.रा. २-२९ । “पुराणमित्येव न साधु सर्वम्” माल. १-२
महापुराणानि अष्टादश । एतानि वेदव्यासमहर्षिणा रचितानि इति प्रतीतिः ।
ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं च गारुडम् ।
नारदीयं भागवतमाग्नेयं स्कन्दमेव च ॥
भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ।
मात्स्यं कौर्मं च वाराहं तथा ब्रह्माण्डसंज्ञितम् ।
अष्टादशपुराणानि व्यासोक्तानि विदुर्बुधाः ॥
वेदोपनिषत्सु विद्यमानानि गहनतत्त्वानि कथानां द्वारा बोधनम् इतेतत् पुराणानां प्रमुखं प्रयोजनम् । एतत् अतिरिच्य भारतस्य प्राचीनयुगस्य इतिहासस्य पुनर्निर्माणे अपि एतत् साहित्यं महता प्रमाणेन उपकरोति इत्येतत अवश्यं स्मर्तव्यम् । अष्टादशसु महापुरणेषु एकैकस्मिन् अपि भारतस्य विविधस्थलानां परिचयः, विविधकालस्य च निरूपणं दृश्यते । इतिहासे प्रसिद्धानां राजवंशानां विवरणं, राज्ञां विजयपराभवानां विवरणं च उपलभ्यते । तस्मिन् काले प्रसिद्धानां बहु जनानां प्रस्तावः दृश्यते । शुङ्ग-नन्द-मौर्य-इक्ष्वाकु-पुरूरववंशीयानां चरित्रं दृश्यते । भविष्यत्पुराणे चन्द्रगुप्त-विक्रमादित्य-पाणिनि-पतञ्जलि-कबीरदास-कृष्णचैतन्यादीनां विवरणं लभ्यते । ब्रह्माण्डपुराणे शातवाहन-आन्ध्रवंशस्य राज्ञां विवरणेन सह तस्य कालस्य राजनैतिकपरिस्थितेः उल्लेखाः अपि दृश्यन्ते । तेन सह धार्मिकपरिस्थितिः अपि निर्दिष्टा अस्ति । शैव-वैष्णवसम्प्रदाययोः विभिन्नता, देवालयानां माहात्म्यं, व्रतानां विवरणं, पुण्यक्षेत्राणां महिमा च वर्णिता दृश्यते । स्कान्दपुराणे सहस्राधिकानां पुण्यक्षेत्राणां भौगोलिक-ऎतिहासिकविवरणम् उपलभ्यते । चातुर्वर्ण्यव्यवस्था, देशाचार-कुलाचाराः, नित्यनैमित्तिककर्माणि, संस्काराः, पर्वाचरणं, स्वामि-भृत्यसम्बन्धः, राज-प्रजासम्बन्धः, पितृ-पुत्रसम्बन्धः - इत्यादयः विषयाः अत्र निरूपिताः सन्ति । अग्निपुराणे वास्तुशिल्प-वर्णचित्र-नाट्यकलायाः प्रस्तावः अस्ति । अश्वचिकित्सा-हस्तिचिकित्सा-सर्पदष्टमन्त्रचिकित्सा-बालग्रहचिकित्सा च विवृता अस्ति । नारदपुराणे ज्योतिषस्य निरूपणमस्ति । आयुर्वेदस्य इतिहासनिर्माणे ब्रह्माण्डपुराणं सहकरोति । एवं पुराणानां विषयविस्तारः अस्ति सुमहान् ।
पुराणस्य नाम | श्लोकसंख्या | टिप्पणी |
---|---|---|
अग्निपुराणम् | १५,४०० श्लोकाः | |
भागवतपुराणम् | १८,००० श्लोकाः | सर्वाधिक-श्रव्यपुराणम्। सर्वेषु पुराणेषु श्रेष्ठतमम् इति कथ्यते[1] भगवतः कृष्णस्य महिमावर्णनं तथा भक्तिकथा भक्ति आन्दोलनः[2] |
भविष्य पुराणम् | १४,५०० श्लोकाः | |
ब्रह्मपुराणम् | २४,००० श्लोकाः | उदाहरणम् |
ब्रह्माण्ड पुराणम् | १२,००० श्लोकाः | ललितसहस्रनामग्रन्थे अस्ति। |
ब्रह्मवैवर्त पुराणम् | १८,००० श्लोकाः | |
गरुडपुराणम् | १९,००० श्लोकाः | |
कूर्मपुराणम् | १७,००० श्लोकाः | |
लिंगपुराणम् | ११,००० श्लोकाः | |
मार्कण्डेयपुराणम् | ९,००० श्लोकाः | देवीमहात्म्यम्, शक्त्याः वर्णनम् |
मत्स्यपुराणम् | १४,००० श्लोकाः | उदाहरणम् |
नारदपुराणम् | २५,००० श्लोकाः | उदाहरणम् |
पद्मपुराणम् | २४००० श्लोकाः | उदाहरणम् |
स्कन्दपुराणम् | ८१,१०० श्लोकाः | दीर्घतमः |
वामनपुराणम् | १०,००० श्लोकाः | |
वराहपुराणम् | १०,००० श्लोकाः | |
वायुपुराणम् | २४,००० श्लोकाः | |
विष्णुपुराणम् | २३,००० श्लोकाः |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.