From Wikipedia, the free encyclopedia
निम्बूकं निम्बुकं राजनिम्बूकमपरं स्मृतम् । निम्बूकमम्लं वातघ्नं पाचनं दीपनं लघु । राजनिम्बूफलं स्वादु गुरु पित्तसमीरजित् ॥१॥
एतत् निम्बूकम् अपि भारते वर्धमानः कश्चन फलविशेषः । एतत् निम्बूकम् अपि सस्यजन्यः आहारपदार्थः । एतत् निम्बूकम् आङ्ग्लभाषायां Lemon इति उच्यते । प्रायः भारते सर्वेषु अपि प्रदेशेषु अस्य निम्बूकस्य उपयोगः क्रियते एव । एतत् निम्बूकम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य निम्बूकसस्यस्य फलं, त्वक्, पत्रं च उपयुज्यते । अन्यानि अङ्गानि न उपयुज्यन्ते । अनेन निम्बूकेन अवलेहः, पेयम्, उपसेचनम् इत्यादिकं सज्जीक्रियते । चित्रान्नसदृशाणाम् उपहाराणां निर्माणे अपि निम्बूकम् उपयुज्यते । एतत् निम्बूकं सौन्दर्यवर्धकरूपेण अपि उपयुज्यते ।
एतत् निम्बूकम् आम्लरसयुक्तम् । एतत् निम्बूकं पचनार्थं गुरु । एतत् निम्बूकं तीक्ष्णम्, उष्णवीर्ययुक्तं चापि । एतत् निम्बूकं जीर्णानन्तरम् अपि आम्लविपाकः एव भवति ।
निम्बूकस्य रसः एव निम्बूकफलरसः स च आङ्ग्लभाषया Lemon Juice इति उच्यते । निम्बूकफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । भारते तु अयं निम्बूकफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । घर्मकाले तु अस्य निम्बूकफलरसस्य उपयोगः अत्यन्तम् अधिकप्रमाणेन क्रियते ।
देशः | उत्पादनम् (टन्) | |||
---|---|---|---|---|
भारतम् | २,०६०,०००F | |||
मेक्सिको | १,८८०,०००F | |||
अर्जन्टीना | १,२६०,०००F | |||
ब्रासील | १,०६०,०००F | |||
स्पेन् | ८८०,०००F | |||
चीन | ७४५,१००F | |||
अमेरिकासंयुक्तराज्यम् | ७२२,००० | |||
तुर्की | ७०६,६५२ | |||
ईरान् | ६१५,०००F | |||
इटली | ५४६,५८४ | |||
समग्रविश्वे | १३,०३२,३८८F | |||
F = FAO अनुमानितः स्त्रोत: संयुक्तराष्ट्रपुञ्जस्य खाद्य-कृषिसंगठनम् : आर्थिक एवं सामाजिकविभागः सांख्यकीयविभागः Archived २०१२-०६-१९ at the Wayback Machine |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.