कुरुक्षेत्रम्
From Wikipedia, the free encyclopedia
कुरुक्षेत्रम् हरियाणाप्रदेशे स्थिता एकम् सुप्रसिद्धम् तीर्थम् अस्ति। पौराणिककथानुसारं कुरुक्षेत्रं पौराणिकस्थलेषु अन्यतमम् अस्ति । अस्यां भूमौ पाण्डवकौरवाणां महाभारत-युद्धम् अभवत् । नगरमिदं हरियाणा-राज्यस्य मण्डलं विद्यते । कुरुक्षेत्र-मण्डलस्य मुख्यालयः कुरुक्षेत्रे एव अस्ति । नगरमिदं हरियाणा-राज्यस्य प्रसिद्धं स्थलं वर्तते । इदं नगरं हरियाणा-राज्यस्य उत्तरदिशि स्थितम् अस्ति । इदं नगरं परितः अम्बाला-नगरं, यमुनानगरं, करनाल-नगरं, कैथल-नगरं च स्थितम् अस्ति । इदं नगरं देहली-नगरेण, अमृतसर-नगरेण च सह सम्बद्धम् अस्ति । नगरमिदं राष्ट्रियराजमार्गे, रेलमार्गे च स्थितम् अस्ति । इदमेकम् ऐतिहासिकं हिन्दुतीर्थस्थलम अस्ति ।
Kurukshetra कुरुक्षेत्रम् धर्मक्षेत्रम् | |
---|---|
नगर | |
Bronze Chariot with Lord Krishna and Arjuna in Kurukshetra. | |
Country | भारतम् |
State | हरियाणा |
District | कुरुक्षेत्रमण्डलम् |
Founded by | कुरुः |
Named for | कुरुः |
Area | |
• Total | १,५३० km२ |
Population | |
• Total | ९६४,६५५ |
• Density | ६३०/km२ |
Languages | |
• Official | हिन्दी, पञ्जाबी |
• regional | हरियाणवी |
Time zone | UTC+5:30 (IST) |
PIN |
136118 |
Telephone code | 911744 |
ISO 3166 code | IN-HR |
Vehicle registration | HR 07X XXXX |
Website | kurukshetra.nic.in |
समयान्तरे अस्य नगरस्य इतिहासस्य प्रभुत्वं वर्धमानम् अस्ति । भगवान् बुद्ध, नैकाः सिक्खधर्मगुरवः च अपि तत्र गतवन्तः आसन् । तत्र गत्वा तैः बहूनि सामाजिककार्याणि कृतानि सन्ति । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । यथा – मन्दिराणि, सिक्खोपासनागृहाणि च । एतैः स्थलैः कुरुक्षेत्रस्य आकर्षणे वृद्धिर्भवति ।