![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/1f/India_Orissa_locator_map.svg/langsa-640px-India_Orissa_locator_map.svg.png&w=640&q=50)
ओडिशाराज्यम्
From Wikipedia, the free encyclopedia
ओडिशाराज्यं (Odisha) (ओडिया: ଓଡ଼ିଶା [/əˈdɪsə/]) भारतस्य आग्नेयतीरे विद्यमानं राज्यम् । इदम् ओडिश्शा इत्यपि निर्दिश्यते । प्राचीनकाले कलिङ्गम् इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओडिशा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं १९३६ तमवर्षस्य एप्रिल्मासस्य १ दिनाङ्के राज्यत्वम् आप्नोत् । ओडियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् उत्कलदिनत्वेन आचर्यते ।
ओडिशाराज्यम् ଓଡ଼ିଶା |
|
---|---|
— राज्यम् — | |
![]() |
|
![]() |
|
Coordinates (Bhubaneswar): 20.15°उत्तरदिक् 85.50°पूर्वदिक् / २०.१५; ८५.५० | |
देश | ![]() |
प्रतिष्ठित | १ एप्रिल् १९३६ |
राजधानी | भुवनेश्वरम् |
बृहत्तमम् नगरम् | भुवनेश्वरम् |
मण्डलानि | ३० |
सर्वकारः | |
• राज्यपाल | प्र.गणेशि लाल |
• मुख्यमन्त्रिन् | नवीनः पटनायकः (बिजु जनता पक्ष:) |
• विधानसभा | एकः सदनीयः (१४६ मण्डलीः) |
• संसदीयः मण्डलः | २१ |
• उच्च न्यायालयः | ओडिशाराज्य उच्च न्यायालयः, कटकनगरी |
विस्तीर्णता | |
• संहतिः | १,५५,७०७ km२ |
क्षेत्रविस्तारः | नवमः |
जनसङ्ख्या (२०११) | |
• संहतिः | ४,१९,७४,२१८ |
• रैङ्क् | एकादशा |
भारतीय मानक समयः (UTC+05:30) | |
ऐ एस् ओ ३१६६ कोड् | IN-OR |
मानव विकास सूचकांक | ![]() |
मा.वि. सू. स्थान | सप्तविंश (२००५) |
साक्षरता | ७३.४५% |
व्यावहारिकभाषा | ओडिया भाषा |
जालस्थानम् | odisha.gov.in |
ओडिशा विस्तारे भारतस्य राज्येषु नवमे स्थाने जनसङ्ख्या एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति ओडियाभाषा । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र ४८० किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरापुट्-प्रान्ते विद्यमानं १६७२ मीटर्मितोन्नतं देबमालीःपर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते ।
जगति दीर्घतमः हिराकुड्सेतुः(मृत्तिकासेतुः) अस्मिन् राज्ये विद्यते । पुरि-कोणार्क-भुवनेश्वरनगराः च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति । पुरिक्षेत्रे जगन्नाथस्य देवालयः, कोणार्कस्य सूर्यदेवालयः, उदयगिरि-खण्डगिरिगुहाः, भुवनेश्वरस्य धौलिगिरिः, पारदीपनौकाश्रयः च प्रसिद्धस्थानानि सन्ति ।