From Wikipedia, the free encyclopedia
मारुदुर् गोपालन् रामचन्द्रन् अथवा एम्.जि.आर्. (आङ्ग्लः: Maruthur Gopalan Ramachandran, जन्म १७ जनवरी, १९१७ - मृत्युः २४ डिसेम्बर्, १९८७) तमिळ्-चलच्चित्रस्य प्रसिद्धः नटः, निर्माता, निर्देशकश्च आसीत् । एषः अनन्तरं राजनीतिक्षेत्रे प्रविष्टवान् आसीत् तथा तमिऴनाडुराज्यस्य मुख्यमन्त्री अपि अभूत् । एम्.जि.रामचन्द्रन् १९७७ तमवर्षतः १९८७ वर्षपर्यन्तं(मरणपर्यन्तम्) तमिऴनाडुराज्यस्य मुख्यमन्त्री आसीत् । रामचन्द्रन् महोदयस्य जन्म श्रीलङ्कादेशे अभवत् ।
एम्.जि.रामचन्द्रन् | |
---|---|
जन्म |
काणडी, ब्रिटिश् सैलन् (वर्तमाने श्रीलङ्कादेशे) | १७ १९१७
मृत्युः |
२४ १९८७ ७०) चेन्नै, तमिऴनाडुराज्यम्, भारतम् | (आयुः
देशीयता | भारतम् |
अन्यानि नामानि |
एम्. जी. आर्., Puratchi Thalaivar, |
शिक्षणस्य स्थितिः | मद्रास विश्वविद्यालय |
वृत्तिः | अभिनेता, राजनीतिज्ञः, चलच्चित्रनिर्माता, निर्देशकः |
सक्रियतायाः वर्षाणि |
१९३५–१९८४ (अभिनेता) १९५३–१९८७ (राजनीतिज्ञः) |
औन्नत्यम् | फलकम्:Infobox person/height |
धर्मः | हिन्दु |
भार्या(ः) |
तङ्गमणी (१९४२ तमे वर्षे मृता) सतनन्दवती (१९६२ तमे वर्षे मृता) वि. एन्. जानकी (१९९६तमे वर्षे मृता) |
सम्बन्धिनः | एम्. जी. चक्रपाणि (अग्रजः) |
पुरस्काराः |
भारतरत्नम् १९८८ तमे वर्षे (मरणोत्तरम्) [1] |
एम्.जि.आर्.महोदयः १९१७ तमवर्षस्य जनवरीमासस्य १७ दिनाङ्के, श्रीलङ्कादेशस्य कणडीप्रदेशे अजायत् [2]। तस्य पितरौ मलयाली-प्रवासी आस्ताम् । रामचन्द्रन्-महोदयस्य पिता एम्. गोपाल मेनन्, माता च 'मरुदुर् सत्यभामा' आसीत् । अत्यल्पवयसि एव परिवारं समर्थयितुं सः तथा तस्य अग्रजः एम्.जि. चक्रपाणि नाटकमण्डल्यां सदस्यतां स्वीकृतवन्तौ । गान्धीवादी आदर्शेन प्रभावितः एम्.जि.आर्. भारतीयराष्ट्रियकाङ्ग्रेस् पक्षे आत्मान् योजितवान् । आदौ नाटकेषु अभिनयं कृत्वा १९३६ तमे वर्षे तस्य चलच्चित्रजीवनस्य आरम्भम् अकरोत् । १९४० तमे वर्षे चलच्चित्रेषु अग्रणी भूमिकानिमित्तं रामचन्द्रन् स्नातकः उपाधिना सम्भूषितासीत् । अग्रिमेषु त्रिषु दशकेषु एम्. जि. रामचन्द्रन् महोदस्योदयः महानायकत्वेन अभूत् । सः सफलतापूर्वकं नायकरूपी जनप्रीयतां राजनैतिकाधारत्वेन उपयुक्तवान् ।
एम.जि.आर्. महोदयः त्रिवारं विवाहम् अकरोत् । तस्य प्रथमा पत्नी तङ्गामणी (Thangamani), द्वितीया सतनन्दवती (Sathanandavathi) एवञ्च तृतीया पत्नी आसीत् जानकी रामचन्द्रन् (Janaki Ramachandran) ।
एम्. जि. रामचन्द्रन् महोदयः तस्य मांसप्रत्यारोपणमिति दीर्घकालीन-रोगवशात् १९८७ तमवर्षस्य डिसेम्बर् मासस्य २४ दिनाङ्के दिवङ्गतः । मरणकाले तस्य वयः सप्ततिः (७०) आसन् ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.