From Wikipedia, the free encyclopedia
अगस्त्यवृक्षः २०-३० पादपरिमितम् उन्नतः भवति १/२ -१ पादपरिमितदीर्घेषु संयुक्तपन्नेषु ४१-६१ पत्रकाणि भवन्ति । पुष्पं श्वेतं, नौकाकारे भवति । अस्मिन् २-४ अक्षीयमञ्जर्यः भवन्ति । अस्य शिम्बा (ब्रीजकोशः) एकपादपरिमिता दीर्घा किञ्चित् वक्रा च भवति । शरदृतौ पुष्पाणि, शीतकाले फलानि च भवन्ति । आकाशे अगस्त्यनक्षत्रस्य उदये सति पुष्पाणि भवन्ति इति कारणेन अस्य नाम अगत्यः मुनुद्रमः इति अस्ति । बङ्ग्गालप्रदेशे अयम् अधिकतया वर्धते इति कारणेन वङ्गसेनः इत्यपि अस्य नामान्तरं विद्यते । अयम् अत्यन्तं शीघ्रं वर्धते म्रियते च ।
अगस्त्यवृक्षः/Sesbania grandiflora | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
Sesbania grandiflora (L.) Poiret | ||||||||||||||||
अगस्त्यवृक्षः मूलस्थानं मलेशिया इति वदन्ति । मसिषस्, ईजिप्ट् आष्ट्रेलिया इत्यादिषु देशेषु अयम् अधिकतया दृश्यते । अयं भारते अपि सामान्यतः सर्वत्र दृश्यते । गृहोद्यानेषु, उद्यानेषु, पूगवाटिकासु च एनं वर्धयन्ति ।
अगस्थवृक्षस्य सर्वेषु भागेषु औषधीयगुणधर्माः सन्ति । प्राचीनकालतः अयं भारतीयानां परिचितः । अनेकेषु आयुर्वेदग्रन्थेषु अस्य उलेखः लभ्यते । अस्य उपयोगाः अधः निरुपिताः[उद्धरणं वाञ्छितम्]
अस्य रसः १०-२० मि.ली, कषायः ५०-१०० मि.ली. परिमाणे च सेवितुं शक्यते ।
अस्मिन् प्रोटीन् , अनेके जीवसत्त्वाः ,;लोहाः , कानिचन विशिष्टानि रासायनिकानि च सन्ति । त्वचि टयानिनु रक्तवर्णस्य कश्चन निर्यासः च विद्यते । पर्णेषु प्रोटीन्, क्याल्सियं, रञ्जकं अयः, ए-बि-सि- जीवसत्त्वाः च भवन्ति । पुष्पेषु प्रोटीन् ए-बि- जीवसत्वाः भवन्ति । बीजे अत्यधिकपरिमाणे अर्थात् माकिं ७०% प्रोटीन् भवति । अन्येषु कषु अपि वनस्पतिषु एतावति प्रोटीन न भवति । बीजे प्रोटीनीनेन सह कार्बोहैड्रेट्, किञ्चित् विधं तैलं च भवति ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.