From Wikipedia, the free encyclopedia
श्रीलङ्का (सिंहल: ශ්රී ලංකාව, तमिऴ्: இலங்கை, आङ्ग्ल: Sri Lanka), आधिकारिकरूपेण लोकतान्त्रिक समाजवादिकगणराज्यश्रीलङ्का (आङ्ग्ल: Democratic Socialist Republic of Sri Lanka), एशियामहाद्वीपे दक्षिणदिशि विद्यमानः कश्चन देशः । अस्य अन्यत् नाम सिंहलद्वीप: इति। अस्य द्वीपराष्ट्रस्य राजधानी कोलम्बो अस्ति। अस्य देशस्य उत्तरभागे भारतदेश:, पूर्वभागे मालदीव च स्तः । अस्मिन् देशे सिंहल-तमिलसमुदायौ वसतः। अत एव सिंहलभाषा तमिऴभाषा च अत्र प्रमुखे भाषे स्तः। लङ्कायाः उल्लेख: रामायणमहाग्रन्थे भवति। पाकजलसन्धेः मध्ये रामायणस्य कालीना रामसेतुः विद्यते इति प्रमाणितम् अस्ति ।
राष्ट्रगीतम्: "श्रीलङ्का माथा" ශ්රී ලංකා මාතා ஸ்ரீ லங்கா தாயே (संस्कृत: "श्रीलङ्का माता") | |
राजधानी | श्री जयवर्धनेपुरा कोट्टी (विधायिक)[1] कोलम्बो (कार्यपालिका, न्यायिक च)[2] |
बृहत्तमं नगरम् | कोलम्बो |
देशीयता | श्रीलङ्कन |
व्यावहारिकभाषा(ः) | सिंहल तमिऴ्[3] |
प्रादेशिकभाषा(ः) | {{{regional_languages}}} |
राष्ट्रीयभाषा(ः) | {{{languages_type}}} |
सर्वकारः | एकात्मिक अर्ध-अध्यक्षीय गणराज्य |
- राष्ट्रपतिः | गोतबया राजपक्षे |
- प्रधानमन्त्री | महिन्द्र राजपक्षे |
- संसद् अध्यक्षः | महिन्दा यापा अभयवर्धने[4] |
- मुख्यन्यायधीशः | जयन्थ जयसुरिया |
विधानसभा | संसद् |
निर्माणम् | |
- साम्राज्य स्थापितं[5] | 543 BCE |
- राजरतः स्थापितं [6] | 437 BCE |
- कैन्डियन युद्ध | 1796 |
- कैन्डियन सन्धिः हस्ताक्षरित | 1815 |
- स्वतन्त्रता | 4 फरवरी 1948 |
- गणराज्य | 22 मई 1972 |
- वर्तमान संविधानम् | 7 सितंबर 1978 |
विस्तीर्णम् | |
- आविस्तीर्णम् | 65,610 कि.मी2 (120वां) |
25,332 मैल्2 | |
- जलम् (%) | 4.4 |
जनसङ्ख्या | |
- 2020स्य माकिम् | 2,21,56,000[7] (57वां) |
- 2012स्य जनगणतिः | 2,02,77,597[8] () |
- सान्द्रता | 337.7/कि.मी2(24वां) /मैल्2 |
राष्ट्रीयः सर्वसमायः (PPP) | 2021स्य माकिम् |
- आहत्य | $306.997 बिलियन्[9] (56वां) |
- प्रत्येकस्य आयः | $13,909[9] (88वां) |
राष्ट्रीयः सर्वसमायः (शाब्द) | 2021स्य माकिम् |
- आहत्य | $84.532 बिलियन्[9] (64वां) |
- प्रत्येकस्य आयः | $3,830[9] (113वां) |
Gini(2016) | 39.8 () |
मानवसंसाधन सूची (2019) |
0.782 ({{{HDI_category}}})(72वां) |
मुद्रा | श्रीलङ्कनरूप्यकम् (Rs) (LKR ) |
कालमानः | SLST (UTC+5:30) |
वाहनचालनविधम् | वामतः |
अन्तर्जालस्य TLD |
|
दूरवाणीसङ्केतः | ++94 |
रामायणकाले स्वर्णलङ्का इति उल्लिखितं स्थानमेव इदानीं श्रीलङ्कादेशः अस्ति । पूर्वं रावणस्य राजधानी आसीत् । अत्र इदानीं रामायणस्य स्मारकाणि , स्थानानि, वस्तूनि सङ्गृहीतानि सन्ति । एषः प्रदेशः उष्णवलये अन्तर्भवति । अतः अत्र विशिष्टं वातवरणं द्रृष्टुं शक्यते । अत्र अनेके पर्वताः, जलपाताः, वनानि च सन्ति । शिल्पकला, तान्त्रिककुशलता तृतीयशतकतः १४ शतकं यावत् अभिवृद्धिपथे आसीत् । श्रीलङ्कादेशे क्याण्डी, अनुराधपुरं पोलोन्नरवं प्रवासी स्थलानि सन्ति। नेगम्बोसिगिरिया, नुवार, इलियपिन्नवेल, कोलम्बो इत्यादीनि प्रेक्षणीयानि स्थाननि सन्ति । नेगम्बो (४१ कि.मी.) कोलम्बो समीपे डच्जनैः निर्मितं नगरमस्ति ।
अत्र दुर्गाणि नालाः (१०० कि.मी.) आकर्षकाः सन्ति । सिगरिया राजगृहं सा.श.४९५-६४७ समये निर्मितम् आकर्षकमस्ति । एतत् ग्रीष्मकालीनं राजगृहमासीत् । १२०० सोपाननि आरुह्य एतत् प्राप्तव्यम् । अतः एव संस्मरणीयः पर्वतः इति ख्यातः अस्ति । श्रीलङ्कादेशस्य अष्टमं अद्भुतमिव अस्ति शिलासमुच्चयः । सुन्दरतया शयानः सिंहः इवास्ति । क्याण्डीस्थानं कोलम्बोतः १२५ कि.मी. दूरे अस्ति । ५०० मीटर् उन्नते स्थले एतत् नगरमस्ति । पूर्वं देशस्य राजधानी आसीत् । अत्र गौतमबुद्धस्य चतुर्थशतककालीनः देवालयः अत्र अस्ति । जूलै-आगस्टमासयोः अत्र विशेषकार्यक्रमाः भवन्ति । तदा उत्सवे अलङ्कृताः गजाः, क्याण्डन् नृत्यजनाः, भेर्यादिविविधवाद्यानि यात्रायां सम्मिलितानि भवन्ति । नुवारम् इलियं प्रदेशः सागरस्तरतः अतीवोन्नते (२००० मीटर्) स्थितः गिरिधामप्रदेशः अस्ति । इतः दृश्यवीक्षणम् अतीव सन्तोषदं भवति ।कोलम्बो नगरं प्रमुखनौकानिस्थानमस्ति । अत्र वाणिज्यव्यवहाराः राजनीतिकार्याणि च प्रचलन्ति । जनाः स्नेहप्रियाः विश्रान्तिप्रियाः च सन्ति ।
कोलम्बोसागरतीरं १३४० कि.मी. दीर्घमस्ति । सुन्दरस्थलमेतत् विहारयोग्यम् । समीपे राम्बोडजलपातः अस्ति । श्रीलङ्कादेशस्य अतीवोन्नतः पर्वतः (१२४५ मीटर्) आदाम्पिक् इत्यस्ति । तत्र शिलयां बृहत्पादचिन्हानि (१६०.७५ सेण्टी मीटर्) दर्शनीयानि । बुद्धस्य पादौ इति बौद्धाः विश्वसन्ति। आडन् पादौ इति क्रैस्ताः वदन्ति । आड् स्वोच्चाटनानन्तर अत्र एकपादेन स्थितवान् इति प्रतीतिः अस्ति । श्रीलङ्कादेश विश्चसंस्या इतिहासकालिक विशिष्ट क्षेत्रेषु एक घोषितवति अस्ति ।सर्वधर्मायाः जनाः अत्र निवसन्ति । भारतस्य दक्षिणे भागे हिन्दुमहासागरे स्थित बृहतद्वीपः ।
रामेश्वरतः जलमार्गेण नौकायानगमनं शक्यम् । चेन्नैनैतः विमानयानसम्पर्कः अस्ति ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.